This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षायां भूतभौतिकभेदबुद्ध्यपपत्तिः
 
257
 
तत्वमुक्ताकलापः
 
भूतान्तरयुजि भवतो भौमतादिव्यवस्था ॥२३॥
 
सर्वार्थसिद्धिः
 
'* विभागादविभागाच्च भूतभौतिक भेदधीः
स (त्यै) त्येव 2 *यदि वा द्रव्ये सिद्धसाध्यदशान्वयात् ।
एकत्वं च बहुत्वं च मृत्पिण्डकरकादिवत् ॥
आनन्ददायिनी
 
ननु अवयव्यभावे सर्वेषां भूतसंघात्मकत्वेन भूतत्वात् भूत-
भौतिकभेदधीरसत्या स्यात् इत्याशङ्कय विभागाविभागाभ्यां वा
सिद्धसाध्यावस्थायोगेन वा सत्या संभवतीत्याह — विभागादिति । नन्व-
तिरिक्तावयविनिरासे प्रकृतेरेकत्वात् बहुरूपप्रजारूपता न संभवतीत्य-
त्राह-एकत्वं चेति । केचित्तु - अजामेकां बह्रीं सरूपां प्रजां जनयन्तीमति
 
भावप्रकाश:
 
'* विभागादित्यादि—अत्र विभागो भूतभौतिकभेदधीरित्यत्र
हेतुः अविभागश्च सत्येव द्रव्ये इत्यत्रेति विवेकः । ' सदेव
सोम्येदमग्र आसीदेकम् ' ' तदैक्षत बहुस्याम् '
' हन्ताहामिमा-
स्तिस्रो देवताः नामरूपे व्याकरवाणि ' ' यथा सोम्यैकेन मृत्पिण्डेन
सर्वं मृन्मयम् ' ' नामरूपं च भूतानाम्' इत्यादिश्रुतिस्मृतयोऽत्र मूल-
भूताः ॥ नन्वद्रव्यसरे ' विभागस्संयोगनाशरूपः सोऽपि भावान्तराभाव-
पक्षे संयोगन्तरात्मक इत्यपि व्यवस्थापयिष्यते । अतो भृतभौतिकयोस्तत्व-
तोऽभेदेन विभागो न संभवति । एवं नीरक्षीरयोरिवाविभागोऽपीति
नामरूपव्याकरणश्रुत्यनुरोधेन धर्मपुरस्कारेण तौ वाच्यौ अतोऽवस्थाभेद-
निबन्धनैव भूतभौतिकभेदधीरिति पर्यवस्यतीत्याह " * यदिवा इत्यनेन ।
 
SARVARTHA.
 
17