2025-01-21 07:37:11 by ambuda-bot
This page has not been fully proofread.
256
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
तत्वमुक्ताकलापः
[जडद्रव्य
व्यवहृतिनियमस्सूत्रितस्तारतम्यात् देहादौ येन
सर्वार्थसिद्धिः
विशेषव्यपदेशः ? इत्यत्राह — व्यवहृतीति ! सूत्रितो ह्यसौ !
वैशेष्यात्तु तद्वादस्तद्वादः' इति व्यात्मकत्वात्तु भूयस्त्वात्' इति
च । अत्र प्रतिवन्दीं प्रथयति - देहादाविति । येनेति तार-
तम्यपरामर्शः । तवाप्यनारब्धावयविकेषु विजातीयराशिपु भूय-
सा व्यवहारो लोकसिद्धस्संमन्तव्यः । विजातीयदारुशिला-
धारब्धेषु च खट्टागोपुरादिषु किञ्चिज्जातीयत्वनियमः । तत्रा-
वयव्यनारम्भे सर्वत्रैवमस्मन्मतसिद्धिः ।
आनन्ददायिनी
वादः । तथैव पाठ इत्येके । शाखान्तरे तथा पाठ इत्यपरे ।
वैशेष्यादित्यादि-एकभूतांशस्याधिक्यात्तद्भूतव्यवहार इत्यर्थः । द्विशक्ती-
रध्यायपरिसमाप्तिदोतिका । त्र्यात्मकत्वादिति -- त्रित्वमुपलक्षणम् ; पञ्च-
भूतात्मकस्यापि त्र्यात्मकत्वात् । कथमेकभूतव्यवहारः ? इति शङ्काया-
मेकांशस्य भूयस्त्वात्तद्व्यवहार इत्यर्थः । तारतम्यपरामर्श इति -- तथाच
मूलस्यायमर्थः— भूतान्तरयुजि - पञ्चभूतानां देहारम्भात्पूर्वकाले संह-
तानां सत्त्वात् शरीरं पृथिव्यारब्धमेव कुतः अप्यं वा भवतु इति
?
शङ्कायां पृथिव्यवयवानां बहुत्वात्तस्या एव शरीरारम्भकत्वमित्यादि किञ्चि-
द्व्यवस्थापकं वक्तव्यम्; तदत्रापि समानामिति । आदिशब्दद्वयार्थमप्याह-
तवापीति । विजातयिराशिषु — अधिकैकजातीयमाषतिलादिराशिषु ।
अस्मन्मतसिद्धिाति–तत्रातिरिक्तावयव्यभावेऽपि शब्दान्तरादिसर्वकार्य-
सिद्धौ सर्वत्राऽपि तथा शब्दान्तरादिसंभवात् अवयवी न स्यादित्यर्थः ।