2025-01-21 07:37:11 by ambuda-bot
This page has not been fully proofread.
सरः]त्रि-यां देहे नानाजातिसमावेशे बाधकाभावः पार्थिवत्वव्यपदेशानुपपत्तिशङ्काच 255
सर्वार्थसिद्धिः
ज्जातयामत्यपि प्रत्युक्तम् ; तन्त्वादिजातीयैः अतन्त्वादिजा-
तीयोत्पत्त्यभ्युपगमाच्च । भवतु वा पृथिवीत्वतोयत्वादिजाती-
नामेकत्र समावेशः! तथाऽपि का हानिः ? परस्परपरिहार्युपाधि-
यसमावेशन्यायेन दर्शनादर्शनाभ्यामेव सर्वातिप्रसङ्गशान्तेः ।
ननु पाञ्चभौतिकेषु कथमेकभूतशब्दः तत्तदर्थक्रियानियमश्च ?
वर्णितो हि भवद्भिरेव भूतान्तरोपसृष्टेष्वपि देहादिषु पार्थिवाप्या-
दिविभागः । कथं मन्त्रार्थवादेषु 'पृथिवी शरीरम्' इत्यादि-
आनन्ददायिनी
तर्हि क्लृप्तानन्तर्भावाद्दव्यान्तरतापत्तिरित्यत्राह - कल्प्यते चेति । क्लृप्ता-
नन्तर्भावे रूपन्यायादतिरिक्तत्वमिति भावः । द्रव्येष्वयं नियम इत्यत्राह -
तन्त्वादीति। ननु जातिसंकराङ्गीकारे गवां क्षीरं पातव्यं नोट्रादेरिति
शास्त्रार्थनियमो न स्यात् ; गव्यप्युष्ट्रत्वजातिसम्भवादित्यत्राह-परस्परेति ।
यथा स्वादुत्वरसवत्त्वकाश्यादिदेशप्रभवत्वादिरूपोपाधिसाङ्कर्येऽपि गोप-
यस्त्वोष्ट्रपयस्त्वादेः साङ्कर्याभावात् शास्त्रार्थनियमः ; यथा गृहस्थत्वयति-
त्वादेरेककाले न साङ्कर्यं यथा वा शूद्रान्नत्वब्राह्मणान्नत्वादेरसाङ्कर्यं
दर्शनबलादङ्गीकार्यम् ; तथाऽत्रापि यथादर्शनं व्यवस्थासंभवान्न दोष
इत्यर्थः । ननु शरीरस्य पाञ्चभौतिकत्वे कथं पार्थिवत्वव्यपदेशः ? इत्या-
शङ्कयाह–नन्वित्यादिना । तत्तदर्थक्रियानियमः --- पार्थिवत्वप्रयुक्तगुरुत्व-
काठिन्यादिहेतुकक्रियैव । न तु सेचनदहनादिक्रियाः । वर्णितो
हीति — अस्थित्वगादिकं पार्थिवं रुधिरादिकमाप्यमित्यादिविभाग
इत्यर्थः। मन्त्रार्थवादेष्विति——– निरूढपश्वङ्गहोमकरणमन्त्रार्थवादे इत्यर्थः ।
तत्र यद्यपि ; 'पृथिव्यै शरीरम्' इति पाठो दृश्यते तथाऽपि
अन्तरिक्षमात्मा ' इत्यादिसाहचर्यात् विभक्तिव्यत्ययेनार्थतोऽनु-
-
;