This page has not been fully proofread.

254
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
तत्वमुक्ताकलापः
 
[ जडद्रव्य
 
भागेः देहादिः पञ्चभूतात्मक इति निगमाद्युक्ति-
भिश्व प्रसिद्धम् । न त्वेवं संकरस्स्यात्
 
सर्वार्थसिद्धिः
 
-
 
यथा
 
वपुः' इत्यादि च स्मर्यते ; तदिदमाह – देहादिरिति ।
विजातीयवृक्षपोतव्यतिषक्तोपचये वृक्षैकत्वधीः ; एवमेकस्मिन्न-
नेकभूतारब्धे विरुद्धजातिसमावेशगन्धोऽपि न स्यादित्याह -
न त्विति । एवंशब्द उक्तहेतुपरो वा । अपूर्वद्रव्यानुत्पादादि-
त्यर्थः । तदुत्पादेऽपि न च जातिसंकर इत्याशयः । नर-
सिंहादिन्यायेनोभयविलक्षणावयव्युत्पत्तेस्संभवात् । कल्प्यते
च युष्माभिश्चित्रं रूपान्तरम् । एतेन तज्जातीयोपात्तं कथमत-
 
आनन्ददायिनी
 
हाराणामप्यपार्थिवरूपवत्वमेव ; तथाऽपि भूतद्वयमयत्वे शरीरस्य भूता-
न्तरमयत्वमपि तद्वद्भवतीति भावः । वृक्षैकत्वधीरिति---यथा चूतवटा-
श्वत्थव्यतिषक्ताङ्कुरजन्ये नानोपादानके एकोऽवयवीति धीरित्यर्थः ।
व्यतिषक्तवृक्षपोतोपचयस्यासन्निहितत्वात्तत्परामर्शो न युक्त इति पक्षा-
न्तरमाह—एवंशब्द इति । पूर्वश्लोके प्रतिपन्नत्वात् । एवं च
पाञ्चभौतिकत्वे शरीरस्य नियतजातिर्न स्यात् नियामकाभावात् । नाऽपि
नाना ; साङ्कर्यप्रसङ्गात् ; नापि तद्रहितम् ; द्रव्यत्वावान्तरजातिरहितस्य
कार्यस्याद्रव्यत्वापातात् । नापि जात्यन्तरम् ; अधिकद्रव्यापत्तेः इत्याद्य-
नुपपत्तयः परोत्प्रेक्षिताः अवयव्यनभ्युपगमपक्षे न प्रभवन्तीति भावः ।
अवयव्यङ्गीकारेऽपि नैते दोषाः स्युरित्याह —तदुत्पादेऽपीति । ननु