2025-01-21 07:37:09 by ambuda-bot
This page has not been fully proofread.
सर: ]
त्रिगुणपरीक्षायां देहादेः पञ्चभूतोपादानकत्वम्
253
तत्वमुक्ताकलापः
संघातो नैकभूतैरपि भवति यथा ह्येकभूतस्य
सर्वार्थसिद्धिः
या चान्या कल्पना - ' शरीरादिषु पृथिव्याद्यनेकभूतस-
द्भावेऽप्येकमेव भूतमुपादनम् ; अन्यत् संसर्गिमात्रम्' इति; तामपि
निरस्यति - संघात इति । अवयविसद्भावे हि एकप्रकृतित्वं निय-
न्तव्यं न वा त्वया? संघातवादे तु यथादर्शनं सर्वमुपादानम् ।
न च विजातीयानां संहतिर्नास्ति ! दृष्टविरोधात् युष्मत्सिद्धान्तवि-
रोधाच्च, अन्यथा कथं तैजसत्वाभिमते काञ्चनादौ गुरुत्वादि-
क्लृप्तिः ? किंच त्रिवृत्करणं नामरूपव्याकरणार्थम् । 'चतु-
विधाहारमयं शरीरम्' इति च गर्भोपनिषत् । ' पञ्चभूतात्मकं
आनन्ददायिनी
प्रसङ्गसंगतिमाह – या चान्या कल्पनेति । अनेकप्रकृतित्वेऽपि
बाधकाभावस्य उत्तरत्र वक्ष्यमाणत्वादिति भावः । संघातवादेत्विति-
अत्रानेकप्रकृतिकत्वमेकप्रकृतिकत्वमिति विचारस्यवानुत्थानमित्यर्थः। दृष्ट-
विरोधादिति – नीरक्षीरादिसंहतिदर्शनादित्यर्थः । दृष्टिविरोधादिति
क्वचित्पाठः । सिद्धान्तविरोधमेवोपपादयति — अन्यथेति । उपष्टम्भक-
पार्थिवांशगुरुत्वं स्वर्णे प्रतीयते इति युष्मत्क्लप्तिः । आदिशब्देन
रूपादिर्गृह्यते । निगमाद्युक्तिभिश्चेत्यस्यार्थमाह---किंचेति । ननु त्रिवृ-
त्करणश्रुतिर्न देहस्य पाञ्चभौतिकत्वं वदतीत्यत्राह — त्रिवृत्करणमिति ।
रूपवत्त्वाच्छरीरस्येति भावः । साक्षाद्विवक्षितार्थप्रतिपादिकां श्रुतिमाह—
चतुर्विधाहारमयमिति । यद्यपि पेयं लेां चोष्यं खाद्यमिति चतुर्विधा-