This page has not been fully proofread.

252
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
तत्वमुक्ताकलापः
 
[जडद्रव्य
 
दन्ति दावानलाद्यैः क्षोणीयं क्षुद्यमाना क्षणमपि
चरमामण्ववस्थां न जह्यात् ॥ २२ ॥
 
सर्वार्थसिद्धिः
 
प्रत्यक्षरूपश्च । यद्वा — अन्यरूपेणालोच्यते ; यथाssहोदयन :-
' दृश्यमेव ह्यालोकरूपमारोप्य पिञ्जरस्त्रसरेणुरालोच्यते ' इति ।
उत्तरावयविनां तु अनियतसंख्यैरारम्भः । भावरूपस्य सर्वस्य
समवाय्यसमवायिनिमित्तसापेक्षत्वेऽपि प्रध्वंसस्तु निमित्तमात्र-
जन्यः' इत्यादि; एतादृशं कल्पनाजातं न विद्यावृद्धा बहु-
मन्यन्ते । तथाच सूत्रम् — 'अपरिग्रहाच्चात्यन्तमनपेक्षा' इति ॥
इति त्रिगुणपरीक्षायां सद्रव्यवादसाधनम्.
 
आनन्ददायिनी
 
रूपस्यैव प्रत्यक्षत्वात् त्रसरेणुरूपमप्रत्यक्षामिति पक्षमवलम्ब्याह — यद्वेति ।
आलोच्यते इति — पीतशङ्ख इतिवत् चक्षुषा गृह्य (दृश्य) ते इत्यर्थः ।
पिञ्जरः—पीतरूपः । विद्यावृद्धाः --- पाराशर्यादयः । पाराशर्यवचनमुदा-
हरति- अपरिग्रहादिति । महद्भिः सांख्यपक्षः क्वचित्त्यक्तोऽपि प्रायेण
परिगृह्यते काणादपक्षस्त्वत्यन्तं त्यज्यते इत्यर्थः । यद्यपि ' म्रश्नैर्यानां
त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् ' - ' इति लक्षणात् प्रथयति
परिमि' इत्यत्र यतिभङ्गः ; तथाऽपि
;
 
--
 
स्वरसन्ध्याप्त सौन्दर्ये यतिभङ्गो न दोषभाक् ।
 
इति वृत्तरत्नाकरव्याख्यानोतेरदोष इति ध्येयम् । एवमुत्तरत्राऽपि समा-
धेयम् ॥ २२ ॥