This page has not been fully proofread.

सर:] त्रिगुणपरीक्षायां सद्द्रव्यवादसाधने खण्डद्रव्योत्पत्त्यनुपपत्तिः
 
सर्वार्थसिद्धिः
 
251
 
तदेतत् समुद्रादिषु कैमुत्यसिद्धम् । यदप्येवं कल्प्यते - ' द्वाभ्या-
मेवाभ्यामाद्यं कार्यद्रव्यमारभ्यते एकस्यानारम्भकत्वात् ;
असमवायिविरहात् । संयोगो हि न स्वेन स्वस्य ! बहुभिरा-
रब्धत्वे महत्त्वप्रसङ्गेन प्रत्यक्षत्वापातात् ; बहारब्धस्याप्यणुत्वेऽ-
तिप्रसङ्गः । तत्परिमाणं च अवयव संख्याविशेषेण ; अवयव-
महत्त्वप्रचययोरसंभवात् ; नित्यपरिमाणस्यानारम्भकत्वात् । स्वा-
तिशयपरिमाणारम्भकत्वनियमेन अणुतरपरिमाणारम्भकत्वप्रस-
ङ्गाच्च । सा च द्वित्वसंख्या सर्वज्ञापेक्षाबुद्धिजन्या; तद्विना-
शकाभावेऽपि कार्यत्वादनित्या । एवं त्रिभिरेव द्व्यणुकैः
त्रसरेण्वारम्भः तावतैव महत्त्वलाभात् ; द्वाभ्यामारम्भे त्वव-
'यवप्रच महत्त्व रूपकारणान्तराभावेन महत्त्वानुत्पत्तावदृश्यत्वप्र-
सङ्गात् । स च त्रसरेणुरप्रत्यक्षावयव (क) तद्रूपोऽपि स्वयं प्रत्यक्षः
आनन्ददायिनी
 
खननादिरादिशब्दार्थः । ननु पृथिव्यवयव्यभावेऽपि जलावयव्यस्तु !
इत्यत्राह - तदेतत् समुद्रादिष्विति कार्यं नैवारभेरन्' इत्यादिपद्यत्रयेण
दूषणं तन्मते क्वचिदर्थे दूषणोक्तिः वेदान्तविरुद्धार्थेषु सर्वत्र दूषणस्योप-
लक्षणमित्याह–यदपीति । आद्यं कार्यं द्वणुकमित्यर्थः । एकस्येति–परमा-
णोरिति शेषः । संयोगो हीति-स्वस्य स्वेन नेत्यर्थः । बहुभिरिति—कारणबहु-
त्वस्य महत्त्वप्रयोजकत्वादिति भावः । अतिप्रसङ्ग इति -- त्र्यणुकमप्यणु-
स्यात् ; तथाच महदेव न स्यादित्यर्थः । तत्परिमाणं चेति-द्वयणुक
परिमाणमित्यर्थः । (संख्याविशेषेण) आरभ्यते इति शेषः । अवयव महत्त्वं-
कार्यगत (परमाणुपरिमाणातिरिक्त) परिमाणं । पारिशेषात् संख्यावि-
शेषो द्वित्वसंख्येत्याह-सा चेति । कार्यत्वादिति-भावकार्यत्वादित्यर्थः ।
अप्रत्यक्षेति—अप्रत्यक्षत्वमवयवतद्रूपयोर्विशेषणम् । प्रत्यक्षरूपारब्ध-