2025-01-21 07:37:07 by ambuda-bot
This page has not been fully proofread.
250
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापे
अंशुत्कर्षक्षयादिक्षममपि च ततो राशिवत स्थूल-
मेकम् । नोचेत् अभ्रान्तचण्डानिलजलधिधुनी-
सर्वार्थसिद्धिः
यथोपलम्भं संवातपक्ष एव साधीयान् इत्याह- अंशुत्कर्षेति ।
आदिशब्देन अंशुविदारणसंघाने गृह्येते । यदि काचित्काव-
यवभेदमात्रात् पूर्वद्रव्यनिवृत्तिरवयव्यन्तरोत्पत्तिस्स्यात् ; तत्रा-
निष्टमाह – नो चेदिति । अव्यवस्थितेषु प्रदेशभेदेषु तैस्तैर्भेद-
कैरणुद्वयविघटने गुकविनाशादिक्रमेण महापृथिवीपर्यन्त-
नाशे सति अवस्थित संयोगैरपि पुनस्तदारम्भावसरो न सेत्स्यति ;
-
आनन्ददायिनी
न्यायेन । अंशुत्कर्षात् क्षयः - अपचयः । आदिशब्दादुपचयः । तत्क्षमं-
तद्योग्यमिति संघातपक्षे न दोष इति । अतिरिक्तावयविवादिनोऽप्यति-
रिक्तावयव्यारम्भकां (म्भावता) शाभावात् अणुत्वावस्थाया अपरित्यागात्
तद्व्यतिरिक्तद्र्यणुकाद्यभावात् द्रव्यमात्रं प्रत्यक्षं न स्यात् इति गौतमो-
क्तदूषणप्रसङ्गात् अकामेनापि सिद्धान्त्युक्तरीत्या संघातपक्ष एवाश्रय-
णीय इत्यनिष्टप्रसञ्जनव्याजेनाह—– यदीति । न सेत्स्यतीति - द्रव्यान्त-
रोत्पादकानामपि विनाशसामग्री नियतत्वेन तदुत्पादनसमये समवायि-
नाशस्यैवोत्पत्तेरित्यर्थः । मूलस्यायमर्थः – नोचेत् — संघात एवेत्यनङ्गी-
कारे । अनवरतचण्डवाय्वादिभिः अवयवशोऽभिघातेन विभज्यमाना
क्षणकालमप्यण्ववस्थां न परित्यजेत् -सर्वदा अणुसंघातरूपैव स्यादिति ।