2025-01-21 07:37:07 by ambuda-bot
This page has not been fully proofread.
सरः] त्रिगुणपरीक्षायां सद्द्रव्यवादसाधने अन्त्यावयविनो दुरुपपादत्वम् 249
सर्वार्थसिद्धिः
रवयवान्तरं घटयेत् तदा तत्पूर्वं गोपुरं तिष्ठति नश्यति वा?
पूर्वत्र कथमन्त्यः ? उत्तरत्र अनन्यथासिद्धोपलम्भविरोधः
नाशकारणाभावे नाशानुपपत्तिः ; अपि च तूलपिण्डमध्यस्थ-
मंशुं यदि कश्चित् सूच्यापकर्षेत् तदा तस्य परिमाणहासो
न दृश्यते, न च तस्य नाशः ; अथाऽपि तत्र ते नाशः
कल्प्यः । असमवायिनाशात् समवायिविगमाच्च । संघातवादे
तु अवयवोत्कर्षापकर्षवादमात्रान्न किञ्चिद्द्रव्यमुत्पद्यते नश्यति
वा । केवलमापादिराशिष्विव उपचयापचयमात्रमेव । अतो
आनन्ददायिनी
-
व्यभिचारस्थलान्तरमप्याह – किंचेति' इत्याहुः । पूर्वत्रेति – सप्रति--
घत्वविरोधेन पूर्वगोपुरावयवानामनारम्भकतया तस्यैवोत्तरगोपुरारम्भक-
त्वेन तत्समवायित्वादिति भावः । ननु दीपप्रभान्यायेन उपलम्भ-
विरोधो नेत्याह--नाशकारणेति । तदा तस्येति — अवयविवादिमते
द्रव्यनाशेन पूर्वपरिमाणनाशात् पुनरारब्धद्रव्यस्य तन्नयूनावयवप्र
शिथिलसंयोगकत्वेन न्यूनपरिमाणनियमात् तद्दर्शनप्रसङ्गः । अथाऽपीति-
पूर्वपरिमाणोपलम्भेऽपि आश्रयनाशकल्पनं साहसमिति भावः । ननु
तत्र नाशो मास्त्वित्यत्राह – असमवायीति । त्वदुक्तनाशसामग्री -
सत्त्वान्नाशकल्पनायास्तवावश्यकत्वादिति भावः । संघातवादे न दोष
इत्याह इति । उपचयापचयौ —— अवयवाधिक्यन्यूनते ।
अंशुविदारणं—अवयवविच्छेदः । संधानं—योजनम् । तथाच मूल-
स्यायमर्थः———भवतामवयविस्थाने स्थूलसंघातमेकम् । राशिवत् - राशि -
--