This page has not been fully proofread.

248
 
सव्याख्यसर्वार्थसिद्धिसहिततत्व मुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्य
 
पद्मसंकोचविकासादिषु च द्रव्यान्तराभावो न्यायवार्तिकटी-
कायामुक्तः । किंच अन्त्यावयवित्वं पटादीनामिष्यते, तैरनेकै-
रच्छिन्नावयवैरेकपटादिनिर्माणे अवयव्यन्तरमुत्पद्यते नवा ?
पूर्वत्र तेषामन्त्यावयवित्वव्याघातः । उत्तरत्र तन्त्वादिभिरपि
तथा स्यात्; अविशेषात् । अन्यस्तर्हि अन्त्यावयवी भवतु !
इति चेन्न ; सर्वत्रैवं कस्यचित्कार्यस्य सहकारिभेदैस्तंभ-
वात् । सन्ति चास्मदाद्यशक्यस्रष्टारः केचित् अन्तत ईश्वरश्च ।
किंच योऽसौ गोपुरादिरन्त्यावयवी तत्र यदि कश्चित् सुधाभि-
आनन्ददायिनी
 
चेष्टापत्तिरिति चेत्तत्राह – पद्मसंकोचेति । तत्र द्रव्यान्तराभावात्तत्प्रती-
तिर्दूरे इति तत्र व्यभिचार इति भावः । द्वितीयं दूषयति—किञ्चेति ।
तत्र लिङ्गं सामग्रयेव उतान्यत् ? नान्त्यः ; तथाविधस्यानुपलम्भात् ।
न प्रथमः ; अवयवसंयोगो हि सामग्री ; तस्याः पद्मादिस्थले व्याभि-
चारादलिङ्गत्वामेति दूषणे सत्येव दूषणान्तरमाह — अन्त्यावयवित्वं
घटादीनामिप्यते इति । उत्तरत्रेति — तन्त्वादिस्थलेऽपि द्रव्य न्तरारम्भ-
काभावात् द्रव्यान्तरं न स्यादित्यर्थः । ननु अन्त्यावयविस्वीकारो
मत्सिद्धान्ते ; न तु पटादिरेवान्त्यावयवीति निर्बन्ध इत्याह--अन्यस्तर्हीति
सर्वत्रैवमिति—सवत्राप्यवयव्यन्तरोत्पत्तौ न किञ्चिदप्यन्त्यावयवि सिध्ये-
दित्यर्थः । ननु कार्यस्य कर्तृसापेक्षत्वाद्यदवयव्यन्तमादायास्मदादीनां द्रव्या-
न्तरसृष्टिसामर्थ्यं नास्ति तत्रैवान्त्यावयवि; तत्र द्रव्यान्तरोत्पत्त्यभावात्
इत्यत आह—सन्ति चेति । ननु गोपुरादिभिः पटादिभिबृहत्पटादिव-
द्दव्यान्तरारम्भासंभवात् अन्त्यावयवि गोपुरादिकं भवतु ! इत्यत्राह -
किंच योऽसौ गोपुरादिरिति । केचित्तु - ' त्वदभिमतद्रव्या (न्तरा) रम्भकस्य