This page has not been fully proofread.

सरः ] त्रिगुणपरीक्षायां सद्दव्यवादसाधने कार्योपादानाभेदे प्रमाणम् 247.
 
तत्वमुक्ताकलापः
 
द्रव्यैक्यं प्रत्यभिज्ञा प्रथयति परिमित्यन्तरेऽ-
न्याप्रतीतेः
 
सर्वार्थसिद्धिः
 
प्रमाणमेवात्र प्रमाणामित्याह — द्रव्यैक्यमिति । परिमित्यन्तरे-
सत्यपीति शेषः । इदं च भेदसाधकानामुपलक्षणम् ; यथा—
प्रसारितस्याकुञ्चितस्य च दीर्घत्वहस्वत्वे यथा च घनीकृतस्य
विरलीकृतस्य च तूलपिण्डस्य अल्पत्वविपुलत्वे दृश्येते एवं वृत्त -
चतुरश्रत्वादिविशेषे दृष्टेऽपि स्यात् ? कुतः ? अन्याप्रतीतेः-
द्रव्यान्तरस्यादर्शनादित्यर्थः । अन्यथा सर्वत्र यत्किश्चिदवस्था-
भेदमात्रेऽपि द्रव्यभेदो दृश्यते इति धृष्टवादे का प्रत्युक्तिः ?
आनन्ददायिनी
 
प्रमाणमेवेति बाधकाभावे प्रत्यभिज्ञायाः जातिविषयत्वादिना अन्यथा-
सिद्धिवर्णनमयुक्तम् अन्यथा कस्यापि वस्तुनः स्थैर्यं न सिद्धयेदिति
भावः । भेदसाधकानामिति — नाम संख्यादीनामित्यर्थः । यथा च घनी-
कृतस्येति—यद्यपि द्रव्यान्तरोत्पत्तिस्तूलपिण्डादौ प्रचयस्य परिमाणहेतुत्वं
वदताऽङ्गीकृता ; तथाऽपि पद्मसंकोच विकासादिस्थले न्यायवार्तिकादाव-
नारम्भस्योक्तत्वा(तुल्यत्वा) न्नात्राऽप्यवयव्यारम्भ इति सिद्धवत्कृत्योक्तिः ।
नन्ववयव्यन्तरसाधकबलात् प्रत्यभिज्ञा जातिविषया भवतु इत्याशङ्कय ;
किं द्रव्यान्तरमुपलब्ध्या वदसि उत लिङ्गात् ? इति विकल्प्य आद्यं दूष-
यति–अदर्शनादिति । नन्ववस्थाभेदस्थले घटपटादौ भिन्नद्रव्यप्रतीतिनि-
यमादत्राप्युपलम्भोऽस्त्येव ; तन्तुपटावस्थाभेदात् इत्यत्राह—अन्यथेति ।
तथाच अवस्थाभेदस्थले भिन्नद्रव्यप्रतीतिनियमो नास्तीत्यर्थः । ननु-