This page has not been fully proofread.

246
 
सव्याख्यसर्वार्थसिद्धिसहित तत्वमुक्ताकलापे
 
[जडद्रव्य
 
सर्वार्थसिद्धिः
 
एकदेशे समस्ते च वृक्षलक्षणसम्भवे ।
वृक्षधीरुपपद्येत सङ्ग्रहाच्चापृथमतिः ॥
सर्वाग्रहणमवयव्यसिद्धेरिति सूत्रयन् ।
प्रत्यक्षव्यतिरिक्तान्तक्लृप्तिदौस्थ्यपराहतः ॥
सेनावनवदित्यादावप्रत्यक्षाणुसूत्रणम्
 

 
त्रसरेण्ववधिस्थाणुस्थापकेषु न शोभते ॥ २१ ।
 
एवं तन्तुपटादीनां भेदे बाधकं तत्साधकानामन्यथासि-
द्धत्वं चोक्तं ; तथाऽप्यभेदे किं प्रमाणमिति वदन्तं प्रति '*स्थिरत्वे
आनन्ददायिनी
 
वृक्षत्वे समुदायप्रतीतावेव वृक्षधीरस्यात् न त्वेकदेशशाखादिप्रतीतावित्य-
त्राह — एकदेश इति । एकदेशस्यापि जलावयवस्य
वृक्षत्वादित्यर्थः । तर्हि शाखादीनामपि
 
जलवत्
 
वृक्षलक्षणयोगाद्वृक्षत्वे
 
शाखाद्यव-
 
वृक्षैकत्वधर्न स्यादित्यत्राह – संग्रहाच्चेति । सर्वेषां
यवानां जलराशिवद्दृढतरसंश्लेषादेकवृक्षबुद्धिरित्यर्थः । यदुक्तमक्षपादोक्त-
मनतिक्रमणीयं स्यादिति ; तदूषयति--सर्वाग्रहणमिति । प्रत्यक्षव्यति-
रिक्तपरमाण्वन्ततत्वपङ्क्तिक्लप्ताविदं दूषणं स्यात् ; नच तदन्तक्लृप्तिः ;
दौस्थ्यपराहतत्वात् ; तथाच तत्कल्पको क्षपादोऽपि पराहत इत्यर्थः । किंच
सेनावनवद्ग्रहणमिति चेन्न अतीन्द्रियत्वादणूनाम् ' इति अवयव्यभाव-
माशङ्कय अप्रत्यक्षत्वप्रसङ्गादवयविसाधनं चायुक्तमित्याह-सेनेति ॥२१॥
उत्तरश्लोकेनाप्यवयविखण्डनं क्रियते इति पौनरुक्तयं (परिहरन्) पूर्व-
शेषत्वात् (संगत्यन्तरंन्ना)नास्तीत्यभिप्रायेणाह -- तन्तुपटादीनामिति।स्थिरत्वे
 
भावप्रकाशः
 
परकालस्थायिमृद्घटाद्यैक्यं साधयितुमलमिति व्यञ्जयति—1*स्थिरत्वे
प्रमाणमेवात्र प्रमाणमित्यनेन ।