2025-01-21 07:37:01 by ambuda-bot
This page has not been fully proofread.
सरः] त्रिगुणपरीक्षायां सद्द्रव्यवादसाधने अवयविसाधक न्यायवार्तिककारन्यूनता 245
सर्वार्थसिद्धिः
मुधा चोदाहृतं '*कौश्च' *द्धिमवत्परमाणुकम् ।
टीकाकारस्तु तत्राह सूक्ष्मद्रव्योपलक्षणम् ।
विशेषानुपलम्भेऽपि राश्येकत्वमतिर्यथा ।
वृक्षादिष्वपि तत्स्याद्यथादृष्टि व्यवस्थितेः ॥
आनन्ददायिनी
वाप्रत्यक्षमित्याशङ्कितं न तु पृथिव्यादिकमित्यत्राह - मुधा चोदाहृतमिति
हिमवत्सहितः परमाणुरस्येति बहुव्रीहि: : ' तदस्य परिमाणम्' इति वा
निर्वाहमाहुः । 'स एषां ग्रामणीः' इति मान्याः; हिमवत्परमाणू ग्रामण्यौ
निर्वाहकौ — कारणे इति निर्वहन्ति । व्रीह्मादित्वात् मत्वर्थे इनिरिति
केचित् । पृथिव्यादिकं परित्यज्याविमृश्य विशेषत उदाहरणं व्यर्थ-
मित्यर्थः । अत एव टीकाकारस्तदुदाहरणमुपलक्षणमित्युक्तवानित्याह-
टीकाकारस्त्विति। ननु अवयव्यनभ्युपगमे संघातस्य बहुत्वात्कथमेकत्वधी-
व्यवहारावित्यत्राह - विशेषानुपलम्भेऽपीति । विशेषोऽवयवी तस्य
राश्यादिष्वभावेऽपीत्यर्थः । वृक्षादिष्वपीति — स्कन्धपलाशादिव्यतिरिक्ता-
वयव्यनभ्युपगमेऽपि वृक्षधी: राश्यादाविव स्यादित्यर्थः । ननु संघातस्यैव
भावप्रकाशः
प्स्यत ; स च खपुष्पसोदर एवेति । '* कैश्चित् – न्यायवार्तिकक्रुद्भिः ।
±*हिमवत्परमाणुकमिति–उदाहृततात्पर्यटीकापर्यालोचने हिमवान् परमा-
णुरस्येत्यादिव्युत्पत्त्या हिमवत्परमाणुकं व्यणुकमिति यथाश्रुतार्थः प्रतीयते ।
न वयं बौद्धवदतिरिक्तावयव्यङ्गीकारे वृत्तिविकल्पानुपपत्त्यादिबाधकमात्र-
मुद्भाव्य अवयवातििरक्तमवयविनं व्यासेवामः ; किंतु करणाकरणरूप-
विरुद्धधर्माध्यासेन पूर्वापरकालस्थायि वस्तु नैकं अपि तु क्षणिकमेवेति
वादिनो वैनाशिकान् प्रतिक्षिपतां भवतां पूर्वापरकालस्थायिवस्त्वैक्यं साध-
यति यत् प्रत्यभिज्ञाप्रमाणं तदेवार्धवैनाशिकान् युष्मानपि परिभूय पूर्वा-
।