2025-01-21 07:37:00 by ambuda-bot
This page has not been fully proofread.
244
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
प्रत्यक्षातीन्द्रियोपात्ते प्रत्यक्षत्वं च दुर्भणम् ।
चाक्षुषाचाक्षुपद्रव्यसंयोगे चाक्षुपत्ववत् ॥
आनन्ददायिनी
॥
पृथिव्याः प्रत्यक्षातीन्द्रियोपात्ततया तादृशगगनघटसंयोगवत् प्रत्य (क्षत्वं ) क्षं
न स्यादित्याह–प्रत्यक्षातीन्द्रियेति । न्यायवार्तिकादौ हिमवत्परमाणुकमे -
-
भावप्रकाशः
दृढीकरोति—* प्रत्यक्षातीन्द्रियोपात्ते इत्यादिना । एतेन तात्पर्यटी-
कायां —— परमाणुग्रहणं सूक्ष्मद्रव्योपलक्षणार्थम् । न पुनः परमाणोः
द्व्यणुकादन्यत्रारम्भसंभवः । न च विवादाध्यासितः परमाणुः महद्दव्य-
मारभते परमाणुत्वात् द्व्यणुकारम्भकपरमाणुवत् ; अमहत्त्वाच्च न हिमव-
त्परमाणुकं प्रत्यक्षं स्यात्' इति वार्तिकयथाश्रुतार्थासांगत्यमुपपाद्य
तस्माद्धिमवद्धिमबिन्दुभ्यां संसर्गिभ्यां संयोगादवयवि द्रव्यमारभ्यते ।
महत्त्वं चास्यावयवमहत्त्वादुत्पद्यते । तथाच चाक्षुषत्वमस्य भवति । एवं
तोयदविमुक्तोदबिन्दूदधिसंयोगात् द्रव्यान्तरोत्पत्तिः प्रतिपत्तव्या' इति
वार्तिकपरिष्करणमपि मुघेति बोधितम् ; तथा हि हिमबिन्दौ
अप्रत्यक्षत्वमभ्युपेत्य महत्त्वाङ्गीकारेऽपि तदारब्धे प्रत्यक्षातीन्द्रि-
योपात्तत्वविरहात् । अतीन्द्रियत्वस्येन्द्रियजन्यप्रत्यक्षायोग्यत्वरूपत्वात् ।
अतएवाप्रत्यक्षपदपरित्यागः । ' यादृशात्संसर्गविशेषादवयवी तवोत्पद्यते
तादृशसंसर्गविशिष्टास्तन्तवः पट '
पट' इत्यनेन पूर्वमेव सर्वत्रावयवी
निरस्त इति क द्रव्यान्तरकथा ?
----
अतश्चाक्षुषाचाक्षुषद्रव्यसंयोग
उभयसंमतो यदि चाक्षुषोऽभविष्यत् तदा भवत उदाहरणमल-