2025-01-21 07:37:00 by ambuda-bot
This page has not been fully proofread.
सरः] त्रिगुणपरीक्षायां सहव्यवादसाधने अवयविनिर्धारक पक्षिलाद्यचातुर्यम् 243
सर्वार्थसिद्धिः
नोत्तरं *' सम्यगन्रवीत् ॥
आरब्धकार्यैरारम्भो मिथस्सप्रतिघत्वतः ॥
न्यायवार्तिकटीकादौ क्षिप्तः संमतिरत्र नः ।
आनन्ददायिनी
आरब्धकार्यैरिति । क्षिप्तः आक्षिप्तः । अवयव्यारम्भपक्षे प्रतिक्षणं
पृथिव्यादीनां परमाणु संयोगविभागाभ्यां पूर्वविनाशोऽपूर्वोत्पत्तिश्चावश्य-
काविति । प्रत्यक्षं खण्डपृथिवी अतीन्द्रियः परमाणुः ताभ्यामुत्पन्नायाः
भावप्रकाशः
तृणोपलेत्यादिवार्तिकोक्तिः तृणोपलेत्यादिश्लोकेन प्रतिक्षिप्ता । '* सम्य-
गिति—अतिरिक्तावयव्यङ्गीकारे गौरवेण इदं घटगरावादिकं पूर्वा मृत्ति-
कैवासीदित्यादिप्रतीतिविरोधेनातिरिक्तावयविसाधकप्रमाणान्तरविरहेण च
सिद्धान्ते लाघवादेर्विनिगमकत्वेन ' विशेषहेत्वभावात्' इति न्यायवार्ति-
कोक्तमुत्तरं तु न सम्यगिति भावः । न्यायवार्तिके चोद्योतकरेण 'नान्योऽव-
यव्यवयवेभ्योऽप्रत्यक्षत्वप्रसङ्गात् —— प्रत्यक्षाप्रत्यक्षवृत्तिरवयव्यप्रत्यक्षस्स्यात्
यद्यवयव्यर्थान्तरं स्यात् ; यथा गर्भमातृसंयोगः प्रत्यक्षाप्रत्यक्षवृत्तिर्न
प्रत्यक्षः ; प्रत्यक्षस्त्ववयवी; तस्मान्नासौ तेभ्योऽर्थान्तरं इति प्राचां दूषण-
मनूद्य प्रत्यक्षत्वादेव नार्थान्तरमिति विरुद्धो हेतुः । गर्भमातृसंयोगश्चा-
प्रत्यक्ष इति किमयं प्रत्यक्षाप्रत्यक्षाभ्यामारम्भादप्रत्यक्षः उत प्रत्यक्षा-
प्रत्यक्षवृत्तित्वादप्रत्यक्षः ? यद्याद्यः हिमवत्परमाणुकमप्रत्यक्षं प्राप्नोति ।
तस्यह्येक एव प्रत्यक्षः एक एवाप्रत्यक्षः ' इत्यादिना तत्परिहार उक्तः ।
तत्र प्राचीनोक्तदूषणपरिहरणमसंगतमिति बोधयन् प्राचीनोक्तदूषणमेव
16*