2025-01-21 07:37:00 by ambuda-bot
This page has not been fully proofread.
242
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
1
सर्वार्थसिद्धिः
* संग्रहप्रभवं चात्र धारणाद्यनुभाष्य तु ॥
पक्षिलस्तन्मतस्थो वा
आनन्ददायिनी
व्यभिचारः परिहृत इत्यत्राह – संग्रहप्रभवं चेति । संग्रहप्रभवं —
जतुसंगृहीतिजन्यमित्यर्थः । एवं सप्रतिघत्वविरोधोऽपि द्वितन्तुक-
पटाद्युत्पत्तिस्थले टीकाकारादिभिः शङ्कितो न सम्यक्परिहृत इत्याह-
भावप्रकाशः
1
यवसमुदाय एव नातिरिक्तोऽवयवीति भावः । * संग्रहप्रभवमित्यादि-
यथाऽऽह न्यायभाष्ये पक्षिलः - ' संग्रहकारिते वै धारणाकर्षणे ! संग्रहो
नाम संयोगसहचरितं गुणान्तरं स्नेहद्रवत्वकारितमपां संयोगादा
कुम्भेऽग्निसंयोगात्पक्के।यदि त्ववयवि (व) कारितेऽभविष्यतां पांसुराशिप्रभृति-
ष्वप्यज्ञास्येताम्। द्रव्यान्तरानुत्पत्तौ च तृणोपलकाष्ठादिषु जतुसंगृहीतेष्वपि
नाभविष्यताम्' इति ! उद्योतकरश्च तन्मतस्थो न्यायवार्तिकेऽपि—— यानि
तृणोपलकाष्ठानि जतुसंगृहीतान्याकृष्यन्ते धार्यन्ते चेत्यवयविन एवैते ।
यदि च निरवयवे चावयवे च धारणाकर्षणे स्याताम् ; स्याद्विरोधः । यदि-
दमुच्यते संग्रहकारिते इति ; न ; विशेषहेत्वभावात् । संग्रहकारिते
धारणाकर्षणे नावयविकारिते इति नच भवता विशेषहेतुरपदिश्यते
इति पांसुराशिप्रभृतिषु च कस्मात्संग्रहो नास्तीति वाच्यम् ।
य एवात्र संग्रहाभावे भवतो हेतुः स एवावयविनो विद्यमानस्य
धारणाकर्षणयोरभावे इति । कः पुनरसौ ? उक्तोऽसावेकदेशगृ-
हीतस्य तत्सहचरितस्य संबन्धविशेष इति । स च पांसुराशिप्र-
भृतिषु नास्ति ; तस्मान्न तत्र धारणाकर्षणे इति' इति । अत्र यानि