This page has not been fully proofread.

सरः] त्रिगुणपरीक्षायां सद्द्रव्यवादसाधने अवयविसाधकहेतोरनैकान्तिकत्वम् 241
 
सर्वार्थसिद्धिः
 
दृढावयवसंश्लेषसहितेऽवयविन्यपि ।
अंशान्तरेषु तेऽस्माकं सिद्धे जतुगृहीतवत् ।
तृणोपलादिजतुसंगृहीतं यदुदाहृतम् ॥
तत्राप्यवयवी नेष्टः कचिज्जतुतृणादिषु ।
पाशाद्यैरपि पश्वादेर्धारणाकर्षणे (क्षमे) क्षणे ॥
किं तत्र पशुपाशादिष्ववयव्यभ्युपेयते ? ।
 
आनन्ददायिनी
 
वान्तरेषु दृढतरसंश्लिष्टदृढाकृष्टावयवानुबन्धतो धारणाकर्षणे भवत इति
नावयव्यपेक्षा । जतुगृहीतवदिति - तृणोपलायस्कान्तार्दानामप्युपलक्षणम् ।
जतुगृहीतिस्थले एकस्य धारणाकर्षणमात्रा जतुगृही तयोरुभयोर्धारणा-
कर्षणवदित्यर्थः । ननु जतुगृहीतादिष्ववयव्यस्तु इत्यत्राह – तृणोपलेति ।
तृणग्राही उपलस्तृणोपलः ; शाकपार्थिवादिः । यदुदाहृतं—यद्दृष्टा-
न्ततयोक्तं तृणोपलादिकं तत्र जतुतृणाद्यवयवेषु तव कश्चिदवयवीष्टोऽपि
न ; तथाऽपि धारणाकर्षणे वर्तेते इत्यर्थः । अपिस्त्वर्थः । स्फुटतर-
व्यभिचारस्थलमाह-पाशाद्यैरिति । धारणाकर्षणयोरीक्षणे - दर्शने सती-
त्यर्थः । धारणाकर्षणे क्षमे इति पाठान्तरम् । किं तत्रेति किमिति
नाभ्युपेयत इत्यर्थः । ननु जतुसंगृहीत्यादिस्थलेषु पक्षिलभाप्यादिषु
 
भावप्रकाशः
 
यविधारणादति स्फुटम् । एवं सत्यवयविनोऽतिरिक्तस्यानङ्गीकारेऽप्येक-
देशग्रहणे सत्यंशान्तराणां तेन गाढसंश्लेषेण धारणादिकमुपपद्यत इति
धारणाकर्षणानुपपत्तिप्रसङ्गविरहेण गोघटादिरुपलभ्यमानो गाढसंश्लिष्टाव-
 
SARVARTHA.
 
16