2025-01-21 07:36:59 by ambuda-bot
This page has not been fully proofread.
240
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
तादृग्भूतावयव्यर्थे संघाते सा भविष्यति ।
गाढावयवसंश्लेषरहितेऽवयविन्यपि ॥
धारणाकर्षणे न स्तः तथाचाभ्युपगच्छसि ।
धारणाकर्षणे चात्र * धृताकृष्टानुबन्धतः ॥
आनन्ददायिनी
[जडद्रव्य
' धारणाकर्षणोपपत्तेश्च' इति गौतमेनासूत्रयतेत्यर्थः । अत्र विपर्यये
पर्यवसानेनावयव्यङ्गीकारे धारणाकृष्टी उपपद्येते इत्युपपत्तिरेव सूत्रेण
प्रतिपादितेत्यर्थः । तादृगिति -- धारणाकृष्टियोग्यावयव्युत्पादक संघातमा-
त्रादेव तदुपपद्यत इत्यर्थः । धारणाकर्षणयोरवयविसाध्यताऽपि नेत्याह-
गाढावयवेति । अवयव्युत्पादकासमवायिकारणसंयोगो यत्र दृढो न
भवति कोमललतादौ तत्र धारणाकर्षणे प्रति न प्रयोजकमवयवि ;
नच तत्रावयव्यभावः । तथाचेति — धारणाकर्षणाद्यभावेऽपि तत्रावयव्य-
भ्युपगच्छसि । कुत्र तर्हि धारणाकर्षणे अभ्युपगम्येते इत्यत्राह -
धारणेति । अवयविन्यपि सति गाढावयवसंश्लेषे सत्येव धृताकृष्टा-
नुबन्धतः । धृताकृष्टसंबन्धेन धारणकर्षणे भवत इति वक्तव्यम् ; तथा-
-
भावप्रकाशः
तात्पर्यटीका---' ते एते धारणाकर्षणे गोघटादिकमुपलभ्यमानमवयविनं
साधयतः । कुतः ? निरवयवे विज्ञानाकाशादौ अवयवे च परमाणौ
चादर्शनात् । इदमेवं प्रयोगमारोहति — योऽयं दृश्यमानो गोघटा-
दिरवयविपरमाणुसमूहभावेन विवादाध्यासितः नासाववयवी धारणा-
कर्षणानुपपत्तिप्रसङ्गात्' इत्यादि । * धृताकृष्टानुबन्धत इत्यादि - यदाऽ-
वयविन एकदेशं गृह्णाति तदैकदेशग्रहणेन सहावयविनमपि गृह्णाति 'इत्या-
द्यदाहृतन्या वार्तिके अवयवावयविभावसंबन्धसत्त्वादेवावयवग्रहाणेनाव-