This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षायां सद्दव्यवदसाधने स्वमते दूषणपरिहारः
 
239
 
सर्वार्थसिद्धिः
 
रूपादीनामचित्रेऽपि वदन् वैषम्यदर्शनम् ।
अपह्नुवीत वैयात्यात् खपुष्पादेरदर्शनम् ॥
या चासौ '* धारणाकृष्टयोरुपपत्तिरसूत्र्यत ।
आनन्ददायिनी
 
ननु चूर्णचित्रापेक्षया विशेषात्तन्तुरूपातिरिक्तमेव चित्ररूपम् । नच
तन्तवस्तदधिकरणं ; युगपद्विजातीयरूपासंभवादित्यत्राह - रूपादीनामिति ।
तन्तुरूपपटरूपार्दानामाचित्रेऽपि — वैचित्र्याभावेऽपि भेदाभावेऽपीत्यर्थः ।
वैषम्यदर्शनं-वैषम्योपलम्भनं वदन् - - खपुष्पादेरप्युपलम्भं वदेदित्यर्थः
नन्ववयव्यनभ्युपगमे एकावयवधृतेऽन्येषामवयवानां धारणं न स्यात् ;
एकावयवाकृष्टेऽन्येषामाकर्षणं न स्यात् ; दृश्यते च मूले धृते
वा कृष्टे वाऽग्रादीनां धारणमाकर्षणं च । अवयव्यङ्गीकारे तु एकत्वात्
सर्वावयवष्ववयविनस्तत्संभवादिति चेत् तत्राह – या चासाविति ।
 
भावप्रकाशः
 
* धारणेत्यादि – ' धारणाकर्षणोपपत्तेश्च' (न्या. सू. २-१-३५)
इति सूत्रमित्थं व्याचख्यावुद्योतकरः - ' अवयव्यर्थान्तरभूतः इति चार्थः।
किमिदं धारणं नाम ? एकदेशग्रहण साहचर्ये सत्यवयविनो देशान्तर-
प्राप्तिप्रतिषेधो धारणम् । यदाऽवयविन एकदेशं गृह्णाति तदैक-
देशग्रहणेन सहावयविनमपि गृह्णाति । तेन च ग्रहणेन यदवयविनो
देशान्तरप्राप्तिनिराकरणं तद्धारणम् । अकर्षणं नाम एकदेशग्रहण-
साहचर्येण यदवयवविनो देशान्तरप्रापणं पूर्ववत् । कुत एतत् ? लोकतः ।
लोकः खलु धारणाकर्षणे एवं प्रयुङ्क्ते इति । ते एते धारणाकर्षणे अव-
यविनं साधयतः । कथमिति ! निरवयवे चावयवे चादर्शनात्' इति । अत्र