This page has not been fully proofread.

238
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
घनत्वश्यामतादीनां वनैकाधिकरण्यतः ।
न स्याबहुत्वादेर्घनत्वाद्यैर्विशेषणम् ॥
तन्तवस्सितरक्ताद्याः पटचित्रानुयायिनः ।
अवयव्यनपेक्षत्वं चूर्णसंहतिचित्रवत् ॥
आनन्ददायिनी
 
[जडद्रव्य
 
--
 
घटादिनिष्ठत्वाभावे महान् घट इत्यादिविशेषणविशेष्यभावप्रतीतिर्न स्या-
दित्यत्राह घनत्वेति । घनत्वं निबिडत्वं संयोगविशेषः महत्त्वं वा ।
वनैकाधिकरण्यतः –वनसामानाधिकरण्यात् । वननिष्ठत्वाभावात्तत्रापि
घनं वनं नीलं वनमिति प्रतीतिर्न स्यादित्यर्थः । वृक्षबहुत्वादेः
वनस्येत्यर्थः । केचित्तु—वनैकाधिकरण्यतः — घनं वनं श्यामं वन-
मिति प्रतीत्या वननिष्ठत्वस्य सिद्धेः वृक्षबहुत्वादेः -- घनत्वाद्यैस्सह बहवो
वृक्षाः घनाः श्यामा इति सामानाधिकरण्यप्रतीतिरित्यर्थः । आदि-
शब्देन देशसंयोगो विवक्षितः । ननु वननिष्ठमेव घनत्वादिकमित्य-
त्राह्—वृक्षत्रहुत्वादेरिति । ततोऽतिरिक्तस्य वनस्य भवताऽप्यनङ्गी-
कारात् ; तस्य गुणत्वात् तत्र घनत्वादीनामसंभवादिति भावः । ननु
सितरक्तादितन्त्वारब्धे पटे चित्ररूपधीरस्ति ; तन्तूनामेव पटत्वे प्रत्येक-
तन्तुव्यतिरेकेण चित्ररूपाधिकरणपटस्याभावात्तन्तूनां तदधिकरणत्वा-
भावादाश्रयाभावेन चित्ररूपाभावप्रसङ्गेन चित्रधर्न स्यादित्यत्राह -
तन्तव इति । सितरक्ताद्यास्तन्तव एव पटचित्रानुयायिनः । व्यति-
षङ्गवशेन पटावस्थापन्नेषु सितरक्तादितन्तुषु विद्यमाननानारूपेष्वेव चित्र-
रूपव्यवहार इत्यर्थः । तथा च चित्ररूपाश्रयतया नावयव्यभ्युपेयमित्याह-
अवयव्यनपेक्षत्वमिति । अनपेक्षत्वं - अनपेक्षा । तत्र दृष्टान्तः—चूर्णसं-
हतिचित्रवदिति । सितरक्तादिचूर्णसंहताववयव्यनभ्युपगमादिति भावः ।