2025-01-21 07:36:54 by ambuda-bot
This page has not been fully proofread.
सरः] त्रिगुणपरीक्षायां सद्दव्यवादसाधने खमते दूषणपरिहारः 237
सर्वार्थसिद्धिः
शब्देन संसर्गिद्रव्याणि देशकालौ च गृह्यन्ते । द्वितीयेन त्वादि-
शब्देन यूथपतिमण्डलसेनाव्यूह पूर्णचतुरश्रादिसंग्रहः । परिष-
दाद्युपादानं दृष्टान्तार्थम् । मत्वर्थीयमपि शूरवती सेनेतिवत् प्रत्ये-
कसमुदाय भेदविवक्षया स्यादिति ।
-
भिन्नानामेव संश्लेषे संघातैक्यानुसारतः ।
संयुक्तौ द्वाविति प्रख्या राशिद्वित्वनयाद्भवेत् ॥
महत्त्वैकत्वयुक्तत्वप्रभृतेरपि राशिवत् ।
संयुक्तद्रव्यनिष्ठत्वात् न संयोगे प्रसञ्जनम् ॥
आनन्ददायिनी
त्राह — मत्वर्थीयमपीति । मतोरर्थ इवार्थो यस्येति बहुव्रीहिः । 'मत्व -
र्थाच्छः ' इति स्वार्थिककृत्प्रत्ययः । ननु घटादीनां संघातात्मकत्वे
परस्परसंयोगे सत्येकसंघातत्वापत्त्या एकस्मिन्नेव संयुक्ताविमाविति च
द्वाविति च बुद्धिर्न स्यादित्यत्राह — भिन्नानामेवेति । भिन्नानामवय-
वानां संश्लेषे—संयोगविशेषे संघातैक्यानुसारतः— पृथक् संघात-
क्लृप्तया संघातद्वयस्य संयोगेऽपि संयोगविशेषावस्थोभयघटितैकसंघा-
तात्मकत्वाभावात् संयुक्तौ द्वाविति बुद्धी राशिद्वय इव सम्भवतीत्यर्थः ।
अन्यथा महत्त्वादि राश्यादावपि न स्यादिति भावः । ननु संयोग-
विशेषावस्थात एव घटादिव्यवहाराः ; तर्हि महत्त्वादिकं संयोगस्य
स्यादिति तस्यैव द्रव्यत्वापत्तिः; अवस्थाश्रयस्य त्वया द्रव्यत्वाभ्युपगमात् ।
तथा च घट्टकुट्यां प्रभातमित्यत्राह — महत्त्वैकत्वेति । राशिसंयोगादः
द्रव्यनिष्ठतया न संयोगस्य द्रव्यत्वमिति भावः । ननु त्वन्मते संयोग-
स्यैव घटाद्यवस्थारूपतया महत्त्वैकत्वद्वित्वयुक्तत्वादीनां संयोगविशेष-