This page has not been fully proofread.

236
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्ताकलापे
 
संसर्गादेर्विशेषादवयविपरिषद्राशिवन्यादिवादः ॥
 
सर्वार्थसिद्धिः
 
सुग्रहमेव देशाधिक्यम् । देशस्तु आलोकादिर्यः कश्चिद्यथायोग्य-
मस्तु । अत एव ' प्रधानाभावादणुषु स्थौल्यारोपोऽपि न
स्यादिति चोद्यमपि निस्तीर्णम् । तथाऽपि यदि संसृष्टास्तन्तव
एव पटः; ततः तन्तुराशिमात्रेऽपि पटधीस्स्यात् इत्यत्राह -
संसर्गादेरिति । न हि त्वयाऽपि तन्तुसंसर्गमात्र पटस्यासम
वायिकारणमिष्यते ; तथा सति कुविन्दादिव्यापारनैरपेक्ष्य-
प्रसङ्गात् । अतो यादृशात्संसर्गविशेषादवयवी तवोत्पद्यते तादृश-
संसर्गविशेषविशिष्टास्तन्तवः पटः इति क्वातिप्रसङ्गः ? आदि-
 
आनन्ददायिनी
 
रेऽप्यवयवसंघात एव न्यूनाधिकदेशत्वमित्युपसंहरति — अत इति ।
देशस्त्विति—तन्निर्धारणं व्यर्थमित्यर्थः । अत एवेति —— देशाधिक्यरूप-
प्रधानस्योपपादितत्वादित्यर्थः । ततः स्थूलधीबाधशङ्केति (२२६) मूल-
!
स्यायमर्थः—स्थूलधियो या बाधशङ्का — स्थूलधीः कुत्राऽपि नास्तीति
या शङ्केति यावत् । सा ततः देशाधिक्यरूपस्थौल्यस्योपपादनान्नेति ।
क्वातिप्रसङ्ग इति—तन्तुराशिमात्रे पटधीप्रसङ्गो नास्तीत्यर्थः । ननु
तन्तूनामेवावस्थायोगिनां पटत्वे पटस्तन्तुमानिति प्रयागो न स्यादित्य-
 
भावप्रकाशः
 
1 * प्रधानाभावादिति —मुख्याभावादित्यर्थः ।