2025-01-21 07:36:55 by ambuda-bot
This page has not been fully proofread.
सरः] त्रिगुणपरीक्षायां सद्द्रव्यवादसाधने खमते दूषणपरिहारः
सर्वार्थसिद्धिः
235
निरवयवस्यांशभेद ? इति चेत् आत्मानं पृच्छ ; कर्णशष्कुल्या-
द्युपाधिपरिच्छित्तया नभसि नानाश्रोत्राणि कल्पयसि । भेर्यादि-
शब्देषु श्रूयमाणेषु तरङ्गवृत्त्या तत्तदनन्तरदेशेषु शब्दोत्पत्ति
साधयसि । वेणुरन्धादिविशेषभागाथ प्रसिद्धाः । आकाशा-
देरप्रत्यक्षत्वात्तदंशतारतम्यं दुर्ग्रहमिति चेन्न ; प्रत्यक्षाकाश-
वादिनं प्रति हेत्वसिद्धेः । त्वयाऽपि माषादवयविनो महीधर-
स्याधिकदेशत्वं गृह्यते । आलोकमण्डलांशभेदैस्तत्र देशाधिक्य-
मिति चेन्न ; अलोकस्यापि नभसि न्यूनाधिकदेशवृत्तित्वदृष्टेः ।
परिमाणाधिक्यमात्रमेव पर्वतादिपु गृह्यत इति चेत्; अगृह्य-
माणमपि देशाधिक्यं तत्रास्ति न वा ? अस्ति चेत् ; संघातेऽपि
कोद्यावकाशः ? न चेत्; तत्तदेशेषु चक्षुः प्रसरादिनिरोधकत्वं
न स्यात् । अन्यथा अल्पदेशवर्तिनः सर्वत्र निरोधकत्वप्रसङ्गात् ।
अतः परस्परानाक्रान्तदेशावष्टम्भेन संहन्यमानेषु त्रसरेणुषु
आनन्ददायिनी
।
प्रदेशभेदाश्च सर्वसिद्धा इत्याह- वेणुरन्ध्रेति । प्रत्यक्षेति-सिद्धान्ते प्रत्यक्ष-
त्वादिति भावः । प्रतिबन्धा समाधत्ते - त्वयापीऽति । आकाशाप्रत्यक्ष-
वादिनाऽपि माषावयवापेक्षया महीधरस्योपरिभागेऽधिकदेशत्वं ग्राह्यम् ।
तत्राकाशव्यतिरेकेणान्यस्याभावादिति भावः । आलोकस्यापीति -- आलो-
कमण्डलान्तराभवादिति भावः । ननु माषापेक्षया महीधरस्योपरिभागे
परिमाणाधिक्यमेव (दृश्यते) गृह्यते न देशाधिक्यमिति शङ्कते-
परिमाणाधिक्यमिति । न चेदिति — तत्तद्देशाधिकदेशकत्वाभावादिति-
भावः । ननु तत्तदधिकदेशकत्वाभावेऽपि तत्तद्देशे चक्षुः प्रवृत्तिनिरोधकत्वम
स्त्वित्यत्राह — अन्यथेति । अविशेषादिति भावः । तथाचावयव्यनङ्गीका-