2025-01-21 07:36:54 by ambuda-bot
This page has not been fully proofread.
234
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
पपत्तेः । द्रव्येषु नैवमिति चेन्न ; द्व्यणुकोत्पत्तेः पूर्वक्षणे
संयुक्ताणुद्वयस्य प्रत्येकदेशादधिकदेशत्वावश्यंभावात् । अन्यथा
सर्वपरमाणूनां समानदेशत्वे प्रागुक्तदोषप्रसङ्गात् । द्व्यणुका-
न्तरपरिच्छिन्नस्स देश इति चेन्न ; सह वृत्त्ययोगात् । अन्यथा
परिच्छेदासिद्धेः । समवायिनस्संयोगिनो वा देशस्याभावे कथं
तत्र देशाधिक्यमिति चेन्न ; आकाशाद्यंशभेदेन तदुपपत्तेः । कथं
आनन्ददाहिनी
-
गन्धशब्दो द्रव्यपरः । तथा च गन्धत्वतारतम्यं — परिमलतारतम्यमि-
त्यर्थः । द्व्यणुकोत्पत्तेःपूर्वमिति — देशविशेषापादकावयविनोऽभावादिति
भावः । द्व्यणुकान्तर(रावच्छि) परिच्छिन्नेति — एतद्व्यणुकोत्पत्तेः पूर्वं
द्व्यणुकान्तरस्य सम्भवेन तस्य देशावच्छेदकत्वेन नानुपपत्तिरित्यर्थः ।
सह वृत्त्ययोगादिति–द्वयणुकान्तरावच्छिन्नप्रदेशे परमाणुद्वयस्य सप्रति -
घत्वविरोधात्सहवृत्त्ययोगादित्यर्थः । ननु सहवृत्तिर्मास्तु द्व्यणुकस्य
देशतया तत्र वृत्त्यङ्गीकारे दोषाभावादिति चेत् ; सह वृत्त्ययोगा-
दिति — परमाण्वन्तरेणापि सहवृत्त्ययोगादित्यर्थः । अन्यथेति
तथाचैकपरमाणुदेश एव परमाण्वन्तरस्यापि वृत्तेः द्व्यणुकस्याप्यधि-
कदेशावच्छेदकत्वाभावादित्यर्थः । ननु न्यूनाधिकपरिमाणद्रव्यं देशः ।
स च संयोगी समवायी वा ? तदभावे कथं देशाधिक्यम् ? इति
शङ्कते – समवायिन इति । आकाशेति – आकाशाद्यंशभेद इत्यर्थः ।
-
भावप्रकाश:
6
सिद्धान्ते काले व्यभिचारात् अप्रयोजकत्वाच्च । त्रुटेर्भेदनं न प्रत्यक्षम् !
अत एव तात्पर्यटीकायां अङ्गुल्यग्राभ्यां मृद्यमानस्यास्यादर्शनं
सूक्ष्मतयाऽप्युपपद्यते' इत्युक्तिरसङ्गच्छते इति भावः ।