2025-01-21 07:36:54 by ambuda-bot
This page has not been fully proofread.
सरः]
त्रिगुणपरीक्षायां सद्द्रव्यवादसाधने स्वमते दूषणपरिहारः 233
सर्वार्थसिद्धिः
बुद्धयनपेक्षसंभेदसामर्थ्यादेव परिमाणान्तरमपि पश्यन्तु भवन्तः ।
न तृतीयः ; एकैकस्याप्यत्र (स्या) त्यक्षत्वेऽपि समुदायवशाद्दृश्य-
त्वोपपत्तेः । यथैकैकस्य दवीयसः केशहिमादेरदर्शनेऽपि संहतानां
दृश्यत्वम् । एकैकस्याप्यासत्तौ दर्शनाद्योग्यत्वमस्तीति चेत ;
अणूनामपि त्रसरेणुमात्ररूपाणां ' * सामग्रीसंभवे तथैव स्यात् ।
न चतुर्थः ; माषादिराशिषु संहतिभेदैर्देशतारतम्यदृष्टेः । ननु
तत्तत्परिमाणावयविद्रव्याभावे तत्प्रयुक्तदेशन्यूनाधिकत्वं दुर्नि -
रूपं स्यात् ; मैवम् ; न ह्यवयविनिरूपणेनैव देशाधिक्यादिनिरू-
पणम्; सुरभित्वगन्धत्वादेरिव संबन्धिन्यूनाधिकभावेनापि तदु-
आनन्ददाहिनी
एकैकस्यापीति — तथा च सर्वथा दर्शनायोग्यत्वाभावात् दृष्टान्तवैषम्य-
मिति भावः । वैषम्याभावमाह -- अणूनामिति । तथैव स्यात् —
दर्शनयोग्यत्वं स्यादित्यर्थः । त्रसरेणुविश्रमादणुपरिमाणस्येति भावः ।
नन्विति—न्यूनाधिकपरिमाणद्रव्यावच्छिन्नस्यैव न्यूनाधिकदेशत्वादिति
भावः । सुरभित्वेति—यथा कर्पूरधूळिषु पुष्पेषु वा सौरभ्यं न्यूनम-
धिकं वाऽऽश्रयन्यूनाधिकभावाद्भवति ; तथा अत्रापि संयुक्तद्रव्यन्यूनाधि-
कभावेन अवयव्यभावेऽपि तारतम्यं संभवतीत्यर्थः । गन्धत्वमित्यत्र
भावप्रकाशः
वार्तिकम् । स्थूलत्वं नानावयवानां विलक्षणस्संयोगः इति न दोष-
इति भावः । '* सामग्रसिम्भवे इति – जालसूर्यमरीचिसंयोगादिकारण-
समवधाने इत्यर्थः । ' अभेद्यः परमाणुः । भिद्यते त्रुटि:' इत्यादि
वार्तिके द्रव्यत्वे सति बाह्यकरणप्रत्यक्षत्वेन त्रसरेणोर्भेदनसाधनमयुक्तम् ;