This page has not been fully proofread.

232
 
सव्यानयसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
देशाधिक्यं समेतेष्वणुपु न हि ततः स्थूलधीबाध-
 
शङ्का
 
संहतौ
 
-
 
सर्वार्थसिद्धिः
 
स्थूलत्वाध्यासोऽपि न सिध्येदिति ; तत्राह - देशाधिक्य-
मिति । अयं भावः — स्थूलधीरिति अवयविधीर्वा परिमाण-
विशेषधीर्वा प्रत्यक्षयोग्यत्वधर्वा प्रत्येक देशादधिकदेशत्वधीर्वा ?
नाद्यः ; तदभावप्रसक्तेरिटप्रसङ्गात् । न द्वितीयः; संहते (तै) रेव
अवयविवत् परिमाणान्तरस्य सृष्टयुपपत्तेः । अणुष्वेव कथं
विरुद्धं स्थूलत्वं स्यादिति चेत्; एकत्वाद्याश्रयेष्वेव कथं द्वित्वदि-
कमिच्छसि ? अपेक्षाबुद्धिसंगृहीतान्यानुबन्धसामर्थ्यादिति चेत्;
आनन्ददाहिनी
 
-
 
सिद्धेस्संघातस्याप्यणुवदग्राह्यत्वात् । स्थूलत्वाध्यासोऽपीति---आरोप्य-
स्यान्यत्र सत्त्वनियमात् । तथा च सर्वसिद्धस्थूलधीः क्वचिदपि न
स्यादिति भावः । ननु देशाधिक्यं वा कथं भवेत् ? भवतु वा आधिक्यम् ;
तथाऽप्यणुभूतस्य स्थौल्यं प्रत्यक्षं वा कथं भवेदित्यत्राह — अयं भाव
इति । तदभावप्रसक्तेरिति — अवयव्यभावापादनस्येत्यर्थः । एकत्वेति-
नच ' अणोरणीयान् महतो महीयान् ' इत्यादिश्रुत्या ब्रह्मणि परपक्षवत्
स्वाभाविकाणुत्वमहत्त्वप्रसङ्गः इति चेत् ; यथैकव्यक्तिगतैकत्वसमनियतं
द्वित्वं विरुद्धं तथैकपरिमाणसमनियतं परिमाणान्तरं विरुद्धमिति व्याप्तेः ;
भगवति तन्महत्परिमाणसमनियततदणुत्वं विरुद्धमिति न तत्स्वाभा-
विकमिति ध्येयम् । अन्यानुबन्धः - - व्यक्तयन्तरानुबन्धः –— संबन्धः ।
 
: ;