2025-01-21 07:36:52 by ambuda-bot
This page has not been fully proofread.
230
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
नामणूनां च नित्यानामपि हेतुभेदैरवस्थान्तरापत्तिमङ्गीक-
रोषि । सर्वद्रव्यस्वरूपनित्यत्वं तदवस्थाभेदं च वदतामपि
तथा किं न स्यात् ? ' * संयुक्तावस्थाsपि हि परिणामः ! कथं तर्हि
नित्यानित्यविभागः ? इत्थं ; द्रव्यतदवस्थयोस्तथाभावादेव ।
द्रव्यविवक्षायां त्ववस्थाविशिष्टवेषेणानित्यव्यवहार इति । ननु
तन्तव एव व्यतिषङ्गविशेषविशिष्टाः पट इति भवतां राजान्तः
'पटवच्च' इति सूत्रे दर्शितः; तथा सति दीर्घेकतन्तु परिवर्तन-
विशेषनिष्पादितेऽवयविनि कथं पटवुद्धिस्स्यात् ? अनेकतन्तु
ः ।
आनन्ददायिनी
दिरूपविकारवत्त्वं अणूनामपि द्व्यणुकसंयोगपाकजरूपादिविकारवत्त्व-
मङ्गीकरोषीत्यर्थः । तथेति -- त्वदङ्गीकृतप्रकारेणेत्यर्थः । ननु परिणामो
विकारः । सैवावस्था । नच नित्यानां सा अङ्गीकार्येत्यत्राह
संयुक्तावस्थाऽपीति । तद्वद्भवदभिमतासमवायिकारणसंयोगावस्थाऽपि न
विरुद्धेत्यर्थः । ननु भवत्पक्षे नित्यस्यापि कार्यत्वान्नित्यानित्यव्यवस्था न
स्यादित्याशङ्कते – कथं तर्हीति । इत्थमिति — नामान्तरभजनावस्था-
भावादेव नित्यत्वव्यवहार इत्यर्थः । द्रव्यविवक्षायामिति — द्रव्यस्य
1
भावप्रकाश:
* संयुक्ताऽवस्थाऽपि हीत्यादि - एतेन ' अवस्थानिबन्धनैव कार्य-
तेति' 'न हि तन्तव आत्मानं कुर्वन्ति' इत्यादि वार्तिकोक्तदूषणम-
पास्तम् ॥