This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षायां सद्द्रव्यवादसाधने स्वमते दूषणपरिहारः
 
229
 
तत्वमुक्ताकलापः
 
न च नः कल्पनागौरवं स्यात्
 
सर्वार्थसिद्धिः
 
मित्यत्राह—नचेति । अत्र हि 'परैरप्यसमवायिकारणतयाऽभि-
मता दृष्टा च संयुक्तावस्था स्वीकृतेति नास्माकमिह काचित्क-
ल्पना ; कुतस्तद्वौरवं संभवेदिति भावः । स्वलक्षणसमुदाय-
वादिनाऽपि नैरन्तर्यरूपोऽतिशयः कश्चिदिष्यते ; अन्यथा
दूरस्थवदेकताभ्रान्तिः पुअबुद्धिर्वा न स्यात् । 2 * त्वमपि विभू-
आनन्ददायिनी
 
-
 
अवयविवादिभिरपि तन्त्वादिसंयोगाङ्गीकारान्नास्माकमेव संयोगाङ्गी-
कारे गौरवमित्याह – अत्र हीति । किंचात्र संयोगस्य प्रत्यक्षसिद्ध-
त्वान्न कल्पनेत्याह— दृष्टा चेति । स्वलक्षणवादिनाऽपि स्वलक्षणातिरिक्तं
संयोगस्थानिकं व्यवहारार्थमङ्गीकृतमित्याह-खलक्षणेति । दूरस्थवदिति-
दूरस्थपदार्थेष्विव समीपस्थपदार्थेष्वपि पुञ्जबुद्धिर्न स्यादित्यर्थः । नन्ववस्था
विकारः । नच सा नित्यानां युक्ता । तथात्वे विनाशित्वप्रसङ्गेन
नित्यताव्याघातादित्यत्राह — त्वमपीति । बहूनामाकाशादीनामपि शब्दा-
 
भावप्रकाशः
 
खण्डपटानुत्पत्तौ च तन्त्वतिरिक्तं न किञ्चिदुपलभ्येतेति । *परैरिति —
तदुक्तं न्यायवार्तिके – ' त एव तन्तवस्संस्थानविशेषावस्थिताः पटाख्यां
लभन्ते इत्यारभ्य 'अस्माकं तु संस्थानविशेषस्संयोग' इति । 2*त्वमपीति-
उपयन्नपयन् धर्मो विकरोति हि धर्मिणम् ।
 
इति परिभाषायाः अप्रामाणिकत्वं व्यवस्थापयितेति भावः ।