This page has not been fully proofread.

228
 
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
सर्वार्थसिद्धि.
 
पटपतिस्समीक्ष्येत क्रमादाधिक्यशालिनी ॥
प्राक्सिद्धानां पटादीनामुत्तरोत्तरजन्मनि ।
अहेतुको विनाशश्च स्थिरपक्षे न युज्यते ॥
 
1
 
न चेत्; उपलम्भविरुद्धनाशसन्ततिकल्पनाप्रसङ्गः । * एवमेक-
द्वित्रचादितन्त्वपकर्षणदशायामपि खण्डपरम्परोत्पत्तिनाशपर-
म्पराक्लुतिः क्लिष्टतरा । लाघवशालिनि संघातमात्रपक्षे राशि-
न्यायान्नासौ दोषः । ननु गौरवभयादवयविपरिहारे सौगत-
स्वरूपविशेषमालम्ब्य तन्त्वादीनां संयोगोऽपि त्यज्यता -
 
वत्
 
आनन्ददायिनी
 
लिङ् । ननु पूर्वपूर्वेषां द्वितन्तुकानां त्रितन्तुककाले नाशात् पटपङ्कय-
नुपलम्भो न दोष इत्याशङ्कयाह —— प्राक्सिद्धानामिति । स्थिरपक्षे इति–
तथा च बौद्धपक्षपरिग्रहप्रसङ्ग इति भावः । द्वितीयं दूषयति-
न चेदिति । न युज्यते इत्येतन्न चेदित्यर्थः —– युज्यते चेदिति यावत् ।
तथा च नाशसन्ततिरनुपलम्भबाधितेति भावः । केचित्तु - प्राक्सिद्धाना-
मित्यारभ्य न युज्यते इत्यन्तं पूर्वशेषतया व्याख्याय; द्वितीयं दूषयीत-
न चेदितीत्याहुः। एवमिति — अनुपलम्भबाधितेऽपीत्यर्थः । कल्पनीयेति
शेषः । लाघवशालिनीति — अतिरिक्तद्रव्याभावेन लाघवादिमतीत्यर्थः ।
 
1
 
भावप्रकाशः
 
-
 
* एवमित्यादि — यथाऽऽह किरणावल्यामुदयनः- -' कथं
ताह चरमादितन्त्वपकर्षणेऽल्पतरतमादिपटोपलम्भ इति चेत्; प्रतिबन्धक-
विगमेऽवस्थितसंयोगेभ्यः खण्डपटोत्पत्तेः आद्यादितन्त्वपकर्षणे त्वयाऽ-
प्येषैव रीतिरनुसर्तव्या । अन्यथा द्वितन्तुकादिपटपर्यन्तसमस्त कार्यविनाशे