2025-01-21 07:36:52 by ambuda-bot
This page has not been fully proofread.
सरः]
त्रिगुणपरीक्षायां सद्दव्यवादसाधने अवयविनो वृत्त्याद्यनुपपत्तिः 227
सर्वार्थसिद्धिः
अवयवेषु वृत्त्यनुपपत्तिर्वा; यदि प्रत्यवयवमविभागेनावयवी वर्तते
तदैकावयवदर्शनेऽप्यवयव्युपलभ्येत जातिरिव प्रत्याधारम् । अथ
विभज्य ; अवयवातिरिक्तांशभेदेना (त्व) नवस्थापातः । बल-
वत्प्रमाणोपनीतेऽर्थे संप्रतिपन्नवत् वृत्तयनुपपत्तिर्विलीयत इति
चेन्न ; प्रमाणवलस्यात्र निरस्तत्वात् । आदिशब्देनोत्पत्तिनाशा-
नुपपत्तिस्संगृह्यते । तथा हि- पृथुतरपटनिर्माणप्रक्रमे द्वितन्तु-
कादिपपतिरुत्पद्यते न वा ? न चेत्; बुद्धिशब्दान्तरादिरवस्था-
भेदादेवेति सिद्धं स्यात् । उत्पद्यते चेत्; त्रितन्तुकाद्यारम्भ-
दशायां पूर्वपूर्वं तिष्ठति न वा ? पूर्वत्र तदनारम्भः ; आरब्ध-
कायैस्तदानीमवयव्यन्तरानारम्भात् । न च द्वितन्तुकादिस्त-
न्त्वन्तरसहितास्त्रितन्तुकाद्यारम्भक इति युक्तम् ; इह तन्तुषु
पटः इत्यादिस्वाभिमतव्यवहारविरोधात् ।
पूर्वसिद्धपटैस्सार्धं तन्तुभिः पटसंभवे ।
आनन्ददायिनी
विकल्पमभिप्रेत्य आद्यं दूषयति – यदि प्रत्यवयवमिति । द्वितीयं दूष-
यति—अथेति । वि(अवि) भागस्त्ववयवमादायैव । पूर्वावयववृत्त्यर्थमव-
यवान्तरस्वीकारे तस्मिन्नप्यवयवसंबन्धस्य वक्तव्यतया तत्राप्युक्तविक-
ल्पेनावयवान्तराङ्गीकारे अनवस्थेति भावः । संप्रतिपन्नवदिति—संयोगा-
दिवदित्यर्थः । आरब्धकार्यैरिति तथा सति कार्योत्पत्तेरविरामप्रसङ्गादिति
भावः । नचेति—द्वितन्तुकपदादेस्तन्त्वन्तरस्य चानारब्धकार्यत्वादिति
भावः । इहेति—इह पटः तन्तौ च पट इति व्यवहारप्रसङ्गादिति
भावः । द्वितन्तुकपटादिभिः पटान्तरोत्पत्त्यङ्गीकारे उपलम्भविरोधोऽ-
पीत्याह – पूर्वसिद्धेति । समीक्ष्येतेति न दृश्यत इत्यर्थः । क्रियातिपत्तौ
15*