This page has not been fully proofread.

226
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[
जडद्रव्य
 
तत्वमुक्ताकलापः
 
इत्थं वृत्त्यादिखेदो न भवति
 
सर्वार्थसिद्धिः
 
मप्यविभक्ताकाशप्रदेशवृत्तावविरोधस्स्यात् । नीरक्षीरादिमेलने
 
का वार्ता ? हन्त ! स्वसिद्धान्तं स्मृत्य पृच्छसि । एतेन
भूमावुन्मज्जति निमज्जतीत्यादि सिद्धनिदर्शनमपि विहतम् ;
तस्मादवयवावयव्यतिरिक्तविषय एव सप्रतिघत्वविरोधव्यव-
स्थापनमपि निर्मूलमिति ।२०॥
 
परपक्षे प्रसञ्जितानां दोषाणामभावात् स्वपक्षस्य सम्य-
क्तमाह- इत्थमिति । इत्थं - अवस्थाभेदमात्रेण निर्वाहे सतीत्यर्थः ।
यद्वा त्वत्पक्षवदिति । उक्तस्सप्रतिघत्वविरोध इह वृत्तेः खेदः ।
आनन्ददायिनी
 
-
 
कथं ? भूमौ सिद्धादीनां निमज्जनं कथम् ? तस्मात् स्पर्शवतां
सप्रतिघत्वव्याप्तिरवयवावयविव्यतिरिक्तस्थले नीरक्षीरादिस्थल इव संकु-
चिता न वर्तत इत्यत्राह — नीरक्षीरेति । स्वसिद्धान्तं प्रस्मृत्येति-
नीरक्षीरादिष्ववयवविभागेन परस्परानाक्रान्त प्रदेश एव परस्परावयवानां
वृत्तिस्सिद्धा । निमज्जनादावपि भूविभागेन प्रवेशः; झडिति जलनिमज्जने
विभक्तजलसन्धानन्यायेन पुनस्सन्धानम् । तच्च सूक्ष्मकालत्वात् ज्वाला-
नाशन्यायेन न प्रतीयते इति किरणावल्लयादौ प्रतिपादितमित्यर्थः ।
तस्मादिति – तथाच संकोचे न प्रमाणमिति भावः ॥२०॥
 
-
 
संगतिं दर्शयति—परपक्ष इति । दृष्टान्तपरत्वे स्वारस्यादाह-
यद्वेति । अथ प्रत्यवयवं अविभागेन वर्तते उत विभागेन ? इति