This page has not been fully proofread.

सरः ] त्रिगुणपरीक्षायां सद्द्रव्यवादसाधने कार्यसोपादान।तिरेके दोषः
 
तत्वमुक्ताकलापः
 
225
 
नो चेदंशांशिनोस्स्यात्प्रतिहतिः उभयोः स्पर्श-
वत्त्वाविशेषात् ॥ २०॥
 
सर्वार्थसिद्धिः
 
-
 
नो चेदिति । अंशांशिनोः — अवयवावयविनोरित्यर्थः । उक्त-
प्रसङ्गे तदभिमतमेव हेतुमाह – उभयोरिति । द्वयोर्द्रव्ययोरन्य-
तरस्य वा स्पर्शहीनत्वे मिथः प्रतिरोधो नास्ति ; इह तु न
तथेत्यभिप्रायेणाभयारित्युक्तम् । अवयवावयविनोरेकत्र वृत्तिर्ना -
स्तीति चेत् ; समवायिदे शैक्याभावेऽपि संयोगिदेशैक्य' मङ्गी-
करोषि ; तत्र कथं तन्त्ववष्टब्धनभः प्रदेशे पटसंयोगः ? माभू-
दिति चेत्; मूतमूर्तसंयोगविलोपप्रसङ्गः ; मेरुमन्दरादीना-
आनन्ददायिनी
 
1
 
त्यारभ्य पत्रताटङ्कादिस्थलपरिहाराशङ्का पूर्वकं नो चेदित्यस्यावतारिका-
ग्रन्थः । नन्ववयवस्य स्वावयववृत्तित्वं अवयविनोऽवयववृत्तित्वमिति
नैकत्र वृत्तित्वमिति शङ्कते - अवयवावयविनोरिति । संयोगिदेशैक्यमिति–
एकत्र नभस्स्थलेऽवयवावयविनोस्संयोगसंबन्धवृत्तिरिति भावः । मूर्ता-
मूर्तेति — यद्यपि कार्यानारम्भकाले परमाण्वाकाशसंयोगे न विरोधः ;
तथाऽपि घटादीनां मूर्तीनाममूर्तस्संयोगं ब्रवीषि संयोगजसंयोगं स न
स्यादिति भावः । यदि स्पर्शवतोस्सप्रतिघत्वविरोधो न स्यात्तत्राह-
मेरुमन्दरेति । ननु सप्रतिघत्वावरोधे नीरक्षीरयोरेकनभः प्रदेशवृत्तिः
भावप्रकाशः
 
' * अङ्गीकरोषीति - ' द्रव्याणामेकत्र समवायेन समानदेशतां
व्यासेधामो न तु संयोगेन' इत्याद्युदाहृतवाचस्पतिवाक्ये व्यक्तमेतत् ॥
 
SARVARTHA.
 
15