2025-01-21 07:36:51 by ambuda-bot
This page has not been fully proofread.
224
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप
[
जडद्रव्य
सर्वार्थसिद्धिः
सफलश्चावस्थान्तरेण कारकव्यापारः । न ह्यत्रावयव्यन्तरोत्पत्तिः
आकुञ्चनप्रसारणपद्मसंकोचविकासादिष्वपि तत्कल्पनाप्रसङ्गात् । •
*नचैकेनावयवेनावयव्यारम्भः ; असमवायिकारणासंभवात् ।
अवयवावयवसंयोगस्तत्रासमवायिकारणमिति चेन्न ; तस्यान्या-
र्थत्वात् । अन्यथा अंगूनां तन्तुवत् पटाश्रयत्वमपि स्यात् । न च
तद्युक्तम्; आरब्धकार्यैरवयवैस्तदैवावयव्यन्तरारम्भानभ्युपगमात् ।
तत्र हि सप्रतिघत्वविरोधाद्विभेषि । एवं संप्रतिपन्नावस्थाभेद-
मात्रानादरेण द्रव्यान्तरकल्पनेऽपि तमेव विरोधं प्रसज्जयति-
आनन्ददायिनी
-
व्यभिचारस्थलान्तरमप्याह – आकुञ्चनेति । असमवायिकारणेति
अन्यथा द्वणुकमेकस्मादेव परमणोरुत्पद्येतेति भावः । अवयवावयवेति-
अवयवस्य चेदवयवास्तेषां संयोग इत्यर्थः । अन्यार्थत्वादिति — अवय-
वजनकत्वेन पटरूपवदन्यथासिद्धत्वादित्यर्थः । अन्यथेति — कार्यद्रव्य-
स्यासमवायिसामानाधिकरण्यनियमादिति भावः । आरब्धकार्यैरिति-
द्रव्यासमवायिकारणाश्रयस्य समवायिकारणत्वनियमादवयवावयवानां आ-
रब्धावयव्यात्मकावयवतया तत्काल एवावयव्यन्तरजनकत्वं न संभव-
तीत्यर्थः । अनभ्युपगमे हेतुमाह – तत्रेति । यद्वा—नचैकावयवे-
भावप्रकाशः
-
काद्युदाहरणं स्यात्' इत्यवयवावयव्यभेदवादिशङ्कामुपक्षिप्य यहूषणं
तत्सिद्धान्तेऽलग्नकमिति बोधितम् ॥
* नचैकेत्यादि । उक्तं च किरणावल्यामुदयनेन – ' तत्रैकमनार-
म्भकमवयवसंयोगानुपपत्तावसमवायिकारणाभावात्' इति ॥