2025-01-21 07:36:49 by ambuda-bot
This page has not been fully proofread.
रसः]त्रिगुणपरीक्षायां सद्द्रव्यवादसाधने कार्योपादभेदेपरोक्तसाधकानामन्यथासिद्धिः 223
तत्वमुक्ताकलापः
कालादिभेदैः : । द्रव्याभेदेऽप्यवस्थान्तरत इह तु ते
पत्रताटङ्कवत्स्युः
सर्वार्थसिद्धिः
पूर्वकालीनास्तन्त्वादयः पटादयस्तु पश्चाद्भाविन इत्येवंविध
इह कालभेद: । आदिशब्देन कारणभेदादिसंग्रहः । अंशुप्रभृतय-
स्तन्त्वादीनां; पटादीनां तु तन्त्वादय इति नियतोऽत्र कारण -
भेदः । कार्यभेदश्चैवं नियत एव । कारणस्यैव च कार्यत्वे
कारकव्यापारवैयर्थ्यं स्यादिति भेदहेतवः । एषामन्यथासिद्धि-
माह -- द्रव्याभेदेऽपीति । तुशब्दोऽवधारणे । उपादानोपादेयतया
अवस्थाद्व्यवति द्रव्ये घटपटवद्भेदं साधयितुं न शक्नुवन्ती-
त्यर्थः । अत्र दुस्तरप्रतिबन्द्यभिप्रायेण निदर्शयति —–पत्रताटङ्क-
वदिति । पत्रस्य हि *कुण्डलितस्य नियतं नामान्तरं दृष्टम् ।
आनन्ददायिनी
कारणभेदादीत्यनेन कार्यभेद उच्यते । कार्यभेदश्चैवमिति—पटस्या-
च्छादनरूपं कार्यम्; तन्तूनां पटादिरूपं कार्यमियर्थः । एतेषा-
मनुग्राहकं तर्कमाह—कारणस्यैवेति । अनुकूलतर्काभावान्न साधक
इत्याह — एषामिति । दुस्तरेति - तथा च तत्र व्यभिचारोऽपीति भावः ।
भावप्रकाशः
*कुण्डलितस्येति –एतेनाहिकुण्डलाधिकरणे 'पूर्ववद्वा' इति
सिद्धान्तसूत्रेण 'उभयव्यपदेशात्त्वहिकुण्डलवत्' इति पूर्वपक्षोक्ताहि-
कुण्डलनयस्य ब्रह्मणि नाङ्गीकारसंभव इति स्थापनेऽप्यचिद्विषये तत्स्वी-
कारस्संभवतीति सूचितम् । तेन न्यायवार्तिके 'अथाऽपि सर्पकुण्डलि-