This page has not been fully proofread.

222
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्य
 
णविशेष्यभावान वाचकभेद इह नामभेदः । स च सिंहव्याघ्र-
शब्दवत् स्ववाच्यं भिन्द्यात् । सङ्ख्याभेदोऽप्येकस्यैव द्वितीयादि-
योगाद्यद्यपि स्यात् ; तथाऽपि मैवमत्र ; बहवस्तन्तवः एकः
पट इति विभजनात् । व्यवहृतिरिहार्थक्रियासिद्ध्यर्थो व्यापारः ।
पटाद्यर्थं तन्त्वादय उपादीयन्ते, पटादयस्त्वाच्छादनाद्यर्थम् । न
च तन्त्वादिमात्रे पटादिधीः पटादिषु वा तन्त्वादिधीरिति
धिषणाभेदः । आकारभेदश्च व्यवस्थिताश्रयो वृत्तचतुरश्रत्वादिः ।
आनन्ददायिनी
 
स्थले । मैवं-द्रव्यान्तरयोगनिमित्तव्यवहारो न भवतीत्यर्थः । तदेव
दर्शयति-- बहव इति ।
 
भावप्रकाशः
 
कुम्भकारणपरम्परान्तःपातिद्रव्यकुम्भैतत्समाहारोन्मानेऽपि कार्यकारण -
योर्भेदपक्षे गुरुत्वाधिक्यप्रतीतिरनिवार्या । एवं ' त्रुटिभूते रजसि' इति
वार्तिके ' अणूनां' इति तट्टीकायां चोक्तया ततोऽपि महतां मृत्कणा-
दीनामवनमनविशेषकारित्वं तुलायां वार्तिकतट्टीकाकाराभ्यामङ्गीकृतप्रा-
यमेवेति कार्यकारणयोर्भेदे गुरुत्वकार्यावनमनमप्यपरिहार्यं इति । कुम्भो -
दाहरणं परित्यज्य पटोदाहरणप्रदर्शनं तु 'पटवच्च' इति सूत्रोक्तदिशा
चूर्णाद्युपमर्दमन्तरेण अनेककारणतन्तुसंघातात्मकत्वेन पटस्य सर्वानुभव-
सिद्धत्वेन कार्यकारणयोरभेदस्थिरीकरणाय । एवं न्यायवार्तिके न
पूर्वोत्तरकार्यद्रव्ये समानकालदेशे मूर्तत्वात् घटादिवत्' इत्यारभ्यार-
म्भकत्वपक्षदूषणमनुचितमिति वोधयितुमपि । एतच्चोत्तरश्लोकसर्वार्थसिद्धौ
विवेचयिष्यते । एवं नो चेदंशांशिनोस्स्यात्' इत्यादिना वक्ष्यमाण-
दूषणमपि तत्पक्षेऽपरिहार्थं बोध्यम् ॥
 
'