This page has not been fully proofread.

1
 
सर:] त्रिगुणपरीक्षायां सद्द्रव्यवादसाधने कार्योपादानभेदे परोक्तं साधकम् 221
 
तत्वमुक्ताकलापः
 
स्वकार्यं नान्यत्वं नाम संख्याव्यवहृतिधिषणाकार-
सर्वार्थसिद्धिः
 
'अतस्तन्तु तत्कार्यपटसमुदायोन्माने पटद्वयोन्मान इव गुरुत्वा-
न्तरकार्यं दुस्त्यजम् । आदिशब्देन द्रवत्वगन्धादिसंग्रहः। स्वकार्य-
तदुचितं कार्यमित्यर्थः । तथाऽप्यनन्यथासिद्धभेदक भूम्ना भेद-
सिद्धौ गुरुत्वान्तरकार्यादर्शनं कथञ्चिदन्यतरप्रतिबन्धेन नेयमित्य-
भिप्रायेण शङ्कमानं प्रत्याह — नान्यत्वमिति । यद्यपि नामभेदा-
भेदावर्थभेदाभेदयोरप्रयोजकौ ; तथाऽपि पर्यायातिरिक्तो विशेष-
आनन्ददायिनी
 
व्यातिरेक्यकल्पकमेव कल्पकमिति चेत् न ; तस्यैवासिद्धेरिति भावः ।
रसादिरादिशब्दार्थः । कल्पकमाशङ्कते—तथापीति । अत्र – तन्तुपट-
 
भावप्रकाशः
 
'*अतस्तन्तुतत्कार्यपटसमुदायेत्यादिना । अयं भावः——अत्र
तात्पर्यटीकायां 'अणूनामवनमनविशेषं न करोति तुला' इत्यनेन अणुगु-
रुत्वमात्रस्य दुर्ग्रहताप्रतीतावपि ' द्रव्यसमाहारगतगुरुत्वावधारणात्' इत्यु-
पक्रम्य ' आचरमादाच परमाणोश्च द्रव्यसमाहार उन्मीयते । तत्र मनुष्यध-
र्मणो न युक्तं वक्तुं इयत्कारणगुरुत्वमियत्कार्यगुरुत्वमिति । न च समाहारः
कारणं अपितु अनारब्ध कार्यं चरमद्रव्यं कारणमिति' इति न्यायवार्तिक-
विवरणतात्पर्यटीकायां 'द्रव्यसमाहार इति मृत्कणमृच्चूर्णशर्कराकपाल-
कुम्भसमाहार' इत्यनेन मृत्कणादिगुरुत्वावधारणं स्फुटं प्रतीयते । तत्र
च अनारब्धकार्यस्य चरमद्रव्यस्य कारणत्वाङ्गीकारेऽपि कुम्भकारण-
परम्परानन्तःपातिनः कुम्भस्यचोभयोरुन्माने गुरुत्वाधिक्यप्रतीतिवत्