This page has not been fully proofread.

220
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्तोकलाप
 
[जडद्रव्य
 
सर्वार्थसिद्धिः
 
तथा प्रसङ्गात् । अथ कार्यगुरुत्वस्यातिमन्दत्वात् सूक्ष्मं पतन-
वैषम्यं दुर्ग्रहमिति; तदपि न मान्द्यकारणादृष्टेः, कल्पकासंभवाच्च ।
आनन्ददायिनी
 
तन्तूनां विभागेन पटनाशे उत्पादकाभावाद्रूपादिकं न स्यात् । न च
कारणगुणप्रक्रमेणोत्पत्तिः ; परमाणावपि नाशात् । न च नित्यत्वा-
त्परमाणुगतानां न नाश इति वाच्यं तथा सति पटदशायां तन्तूनां
प्रत्यक्षता न स्यात् । न चेष्टापत्तिः ; अस्मिन् पटे त एव तन्तव
इति सर्वानुभवविरोधादिति भावः । कल्पकासंभवाच्चेति- - नन्ववय-
 
;
 
भावप्रकाशः
 
कुत उत्पद्येत' इति । ननु बहुभिस्तन्तुभिः न्यूनगुरुत्ववत्तया दृष्टैरारब्धे
पटे कार्ये गुरुत्वमान्द्यासंभवेऽपि कारणेषु गुरुत्वं मन्दमेव दृश्यते इति
कारणगुरुत्वस्य मन्दतया न पतनाधिक्यप्रसङ्गः । एवमभिप्रेत्य उद्योत-
करेण 'तस्मादप्रतिषेधोऽयं कार्यगुरुत्वैः कारणगुरुत्वस्य विनाश-
प्रतिबन्धाविति' प्रतिबन्धविनाशपक्षाङ्गीकारेण गुरुत्वान्तरकार्याग्रहणा-
दिति हेतुदूषणं न संभवतीत्यभिधाय ' अतः पूर्व एव प्रतिषेधो नानै-
कान्तादिति कार्यकारणगुरुत्वानवधारणाच्च' इति हेतुद्वयेन स्वमते
दूषणोपसंहारः कृतः । तत्रानैकान्तादिति हेतुः पूर्वं तत्रैव स्फुटीकृतः-
'अवनमनविशेषानाधारत्वान्न गुरुत्वान्तरवत्कार्यद्रव्यवती तुलेति' प्रस्तुत्य
अयमप्यनैकान्तत्वादहेतुः गुरुत्वान्तरवद्द्रव्यसंनिपाते सत्यवनमनविशेषा-
नाधरत्वस्य दृष्टत्वात्–यथा गुरुत्ववति द्रव्ये उन्मीयमाने त्रुटिभूते रजासे
सन्निपतितः इति महागुरुत्वे चोन्मीयमाने गुरुत्वमात्रोपहितानामवन-
मनविशेषं न करोति' इति । अत्र 'गुरुत्वमात्रोपहितानामणूनामवनमन-
विशेषं न करोति तुला, इति तात्पर्यटीका; इति शङ्कामपनुदन् उपसंहरति-
 
'