2025-01-21 07:36:48 by ambuda-bot
This page has not been fully proofread.
सरः]
त्रिगुणपरीक्षायां सद्दव्यवादसाधने कार्योपादानभेदबाधकम् 219
सर्वार्थसिद्धिः
म्वनाभावप्रसङ्गात् । तथा च कथमवयव्यपि तत्र लम्बेत ?
'* संयोगान्त ( रा ) र दर्शनालम्बमानोऽवयवी स्वावयवमपि लम्ब-
यतीति चेन्न ; सर्वावयवलम्बनप्रसङ्गात् । संघातवादिनस्तु यथाऽर्ह
(अ)प्रतिबन्धां(द्धां)शे अल(ल) म्वनोपपत्तिः । कार्यगुरुत्वोत्पत्तौ
कारणगुरुत्वं नश्यतीति चेन्न ; * अपसिद्धान्तात् ; रूपादिष्वपि
आनन्ददायिनी
परमाणुगुरुत्वकल्पना न स्यादिति दोष उक्त इत्यर्थः । तथा चेति--
अवयवलम्बनाभावे तत्समवेतावयविनो लम्बनासंभवादिति भावः ।
अप्रतिबद्धगुरुत्ववद्द्रव्यान्तरसंयोगात् बद्धपाषाणलतान्यायेनावयवी लम्ब-
तामित्यत्राह--संयोगान्तरेति । संयोगान्तराद्दर्शनादिति क्वचित्पाठः ।
तदा संबन्धविशेषादवयवी स्वावयवमपि लम्बयतीति कल्प्यते प्रत्यक्ष-
दर्शनादित्यर्थः । सर्वावयवेति — अविशेषादिति भावः । रूपादिष्विति ।
नन्वस्तु रूपादिष्वापादितः प्रसङ्गः को दोषः : इति चेन्न ; तथा सति
भावप्रकाशः
'* संयोगान्त (रा) रदर्शनादिति-- एतेन यथा स्वसंयुक्तफलादिगतं
गुरुत्वं स्वाश्रयसंयोगसंबन्धेन तूलादिपतनं प्रति हेतुः तद्वदवयविगुरुत्वस्य
स्वाश्रयसमवायित्व संबन्धेन अवयविपातं प्रत्यपि कारणत्वाङ्गीकारेण
न्यायवार्तिके।क्तानाधारत्वादिदूषणं न संभवतीति सूचितम् ॥
±* अपसिद्धान्तादिति-तदुक्तमुद्योतकरेण - 'यदि कार्यगुरुत्वेन
कारणगुरुत्वं विनाश्येत कार्यद्रव्यविनाशात् कारणानां विभक्तानां पातो न
स्यात्। गुरुत्वमेव च न स्यात् । यदि कार्यगुरुत्वेन कारणगुरुत्वं विनाश्यते
अपि तर्हि न क्वचिद्गुरुत्वं स्यात् ; न हि कस्यचित् परमाणोरतीतं कार्यं
नास्ति अतोऽगुरवः परमाणवरस्युः । परमाणुषु च गुरुत्वाभावात् कार्यगुरुत्वं