This page has not been fully proofread.

218
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
सर्वार्थसिद्धिः
 
1
 
तथा च त्वयाऽनभ्युपगमात् अयुक्तेश्च । कार्यगुरुत्वादेव ह्यणुगुरुत्वं
कल्पयसि । जातस्य च न स्वभावतः पतनहेतुत्वाभावः । प्रति-
बन्धात्कार्यानतिरेक इति चेत्; '* किमयं प्रतिबन्धोऽवयवि-
गुरुत्वस्य, उतावयवगुरुत्वस्य ? नाद्यः ; परमाणुगुरुत्वस्यैव पतन-
हेतुत्वप्रसङ्गात् । तथा सति गुरुत्वात्पतनं द्रवत्वात्स्यन्दनमिति
तत्तत्क्रियावन्निष्ठ' गुरुत्वादिकल्पनाभङ्गापाताच्च । अतोऽत्र वर-
मवयविनि गुरुत्वानुत्पत्तिकल्पनम् । तत्र चोक्तो दोषः । न
द्वितीय: ; * कदाचिन्निष्कम्पेऽवयविनि शाखाफलहस्तादिल-
आनन्ददायिनी
 
मवयवित्वादिति भावः । इष्टापत्तिं निरस्यति –—–—तथाचेति । अयुक्ति-
मेवाह—कार्यगुरुत्वादेवेति । जातस्य चेति — कार्ये उत्पन्नस्य गुरुत्व-
स्येत्यर्थः । परमाणुगुरुत्वस्यैवेति — द्वयणुकादिगुरुत्वानामवयविगुरुत्व-
त्वादिति भावः । इष्टापत्तिं निरस्यति--तथा सतीति । ततो वरमिति-
गुरुत्वकार्याभावादिति भावः । इष्टापत्तौ बाधकमाह -तत्र चोक्तो दोष इति ।
 
भावप्रकाशः
 
1 * किमयं प्रतिबन्ध इत्यादिना ॥
 
**गुरुत्व दिकल्पनाभङ्गत्यादि -- स्वाश्रयसमवेतद्रव्यत्व संबन्धेना
वयवगुरुत्वस्य कार्यद्रव्यपतनं प्रति हेतुत्वाङ्गीकारेण न्यायवार्तिकोक्त-
रूपादिपतनापत्तिशङ्काया अनुन्मेषादिति भावः ॥
 
अवयवगुरुत्वप्रतिबन्धपक्षे न्यायवार्तिकोक्तदूषणद्वयं न लगतीत्य-
 
भिप्रेत्य पृथग्दूषयति 3 कदाचिदित्यादि ॥