This page has not been fully proofread.

सरः] त्रिगुणपरीक्षायां सद्दव्यवादसाधने कार्योपादानभेदबाधकम् 217
 
सर्वार्थसिद्धिः
 
वा पटगुरुत्वं च संभूय पतनातिरेकं कथं न कुर्यात् ? तद-
करणे कश्चिदपि हेतुर्न सिद्धयेदित्यर्थः । तथा हि-न तावदव-
यविनि गुरुत्वं न जायते ; परमाणुगुरुत्वपरिशेषप्रसङ्गात् ।
 
आनन्ददायिनी
 
कारणगुणप्रक्रमेण गुरुत्वाङ्गीकारादिति भावः । संभूय—संहत्य ।
न सिध्येदिति---- संभावनायां लिङ् । परमाणुगुरुत्वेति—द्व्यणुकादीना-
 
भावप्रकाशः
 
इति वाच्यं ; अन्यत्रावयविमात्रगतरूपादिगुणस्यैव प्रतीत्या भवन्मतेऽत्रा-
वयवावयव्येतदुभयगतगुणप्रतीत्यङ्गीकारस्यानुचितत्वात्। तथासति अति-
रिक्तमवयविनमनभ्युपगम्यावयवमात्रसमाहारगुणप्रतीतेस्सिद्धान्त्यभिमता -
या एव सर्वत्राङ्गीकारस्य युक्तत्वात् । किरणावल्यामुदयनेनावयवापेक्ष-
याऽवयविनोऽधिकपरिमाणत्वनियमादित्युक्तया तद्रीत्या अधिकगुरुत्व-
वत्तानियमस्याभ्युपगन्तव्यत्वेन कार्यगुरुत्वावधारणस्य सामान्यतस्सं-
भवाच्च । यद्यपि न्यायवार्तिके कार्यगुरुत्वेन कारणगुरुत्वस्य प्रतिबन्ध
पक्ष एक एव " यदि कार्ये पतति कारणमवतिष्ठेत प्रतिपद्येमहि
कार्यगुरुत्वेन कारणगुरुत्वं प्रतिबद्धमिति । न त्विदमस्ति । अतोऽ-
युक्तमेतत् । अनाधारत्वप्रसङ्गाच्च - कार्ये पतति न कारणं पतेदिति
कार्यमनाधारं स्यात्" इति ग्रन्थेन दूषितः ; अथापि न्यायवार्तिके
पूर्वं 'द्रव्यसमाहारगुरुत्वावधारणात् आचरमादा च परमाणोश्च द्रव्य-
समाहार उन्मीयते' इत्युक्तयाऽवयवगुरुत्वप्रतीतेरङ्गीकारेणावयविगुरुत्व-
प्रतिबन्धपक्षोऽपि संभावित इति भावेन पक्षद्वयं दुदूषयिषुर्विकल्पयति-