This page has not been fully proofread.

216
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
कार्योपादानभेदे न कथमधिकता गौरवादेः
 
सर्वार्थसिद्धिः
 
वदतः प्रतिवक्ति—कार्येति । कार्यद्रव्यस्य स्वोपादानद्रव्याद्भेदे
सति *'द्विपलिकैकपलिकन्यायेन तन्तुगुरुत्वं समं न्यूनमधिकं
 
भावप्रकाशः
 
अपि
 
"
 
इयत्कारण गुरुत्वमियत्कार्यगुरुत्वमिति । न च समाहारः कारणम् ;
तु अनारब्धकार्यं चरमद्रव्यं कारणमिति, इति । ' द्रव्यसमाहार इति-
कार्यकारणद्रव्यसमाहारो मृत्कणमृच्चूर्णशर्कराकपालकुम्भसमाहार इत्यर्थः
इति तात्पर्यटीकायां वाचस्पतिः । एवं ' निरनुमानं तर्हि कार्यगुरुत्वम्-
यदि गुरुत्वान्तरवद्दव्योपचये सति कार्यभेदो न गृह्यते कथं प्रति-
पद्येत ? इति । क एवमाह कार्यगुरुत्वं (कार्य) न गृह्यत इति ?
यदि गृह्यते किं तत् ? पतनं । न हि कार्यगुरुत्वमन्तरेण कार्यपातेऽन्यो
हेतुरस्ति । तस्माद्गुरुत्वान्तरवत्कार्यमिति । एतेन तुलावनतिविशेषान्न
कार्यगौरवमिति प्रत्युक्तम् । अथ मन्यसे ; कारणगुरुत्वेनैव कार्यं पात्यते
न कार्यगुरुत्वमस्ति ; अतः कार्यपातस्यान्यनिमित्तत्वान्न सिध्यति गुरुत्वा-
न्तरवत्कार्यमिति ; न ; कार्यकारणयोरसंयोगात्' इत्यादिन्यायवार्तिकमपि ।
अस्मिंश्च संदर्भे कारणकार्यगुरुत्वेयत्तानवधारणेऽपि कारणगुरुत्वाति-
रिक्तकार्यगुरुत्वस्य कार्येऽङ्गीकारेण गुरुत्वाधिक्ये पतनाधिक्यस्यान्यत्र
पटद्वयोन्मानस्थले दर्शनेन तद्वत्तन्तुतत्कार्यपटसमुदायोन्मानेऽपि पत-
नाधिक्यं न्यायवार्तिककारादिमते दुर्वारमेवेत्याह-
 
*1
 
'द्विपलिकेत्यादिना । न च पटद्वयोन्माने द्रव्यसमाहार-
द्वयगतगुरुत्वस्यावधारणमेकपटोन्माने चैकसमाहारगुरुत्वस्येति न दोष