This page has not been fully proofread.

सरः ]
 
त्रिगुणपरीक्षायां सहव्यवादसाधने नैयायिकमतानुवादः 215
 
सर्वार्थसिद्धिः
 
'* तदिह प्रत्यक्षागमबलादेकस्यैव कार्यद्रव्यस्यावस्थाभेदा-
दुपादानोपादेयभाव इति स्थिते द्रव्यान्तरं प्रागसदागन्तुकं
आनन्ददायिनी
 
सार्वत्रिकत्वाद्व्यवस्था न स्यादिति भावः । तदिहेति — मृदयं कुम्भः
तन्तवः पट इति प्रत्यक्षं, सदेवेत्याद्यागमः । कार्यद्रव्यस्येति—तस्मिन्नपि
 
भावप्रकाशः
 
कथञ्चिदपि पक्षेण संबध्यते ' इत्यादिना दूषितम् ; तथाऽपि प्रत्यक्षा-
गमाभ्यां उपादानोपादेययोरभेदसाधने कार्योपादानभेदे गुरुत्वान्तर-
कार्यप्रसङ्गः इति विपक्षे बाधकतर्कविधया गुरुत्वान्तरकार्या-
ग्रहणस्यावयवावयव्यभेदस्थापकत्वे प्राचामाशयमाविष्कुर्वन् मूलमवता-
रयति ' * तदिहेत्यादिना । अत्र न्यायवार्तिकं ' समहीनाधिकप्रसङ्ग
इति चेत् —– यदि तावत्कारणगुरुत्वैस्समं कार्यगुरुत्वं ; यावद्विपलाभ्याम-
संबद्धेऽवनमनं द्विस्तावत्संबद्धे सति स्यात् । अथ कारणगुरुत्वाधिकं
कार्यगुरुत्वं तथाऽप्यधिकं प्रसज्येत ; अथ कारणगुरुत्वाद्धनं कार्य-
गुरुत्वं ; तथाऽपि विशेषो गृह्येत । न त्विदमस्ति । तस्मान्न
कार्यगुरुत्वमस्ति । न । कार्यकारणगुरुत्वेयत्तानवधारणात् — यद्येत-
दवधारितं स्यात् एतावत्कारणगुरुत्वमेतावत्कार्यगुरुत्वामिति तदैतद्युज्यते
वक्तुं समाधिकहीनकार्यप्रसङ्ग इति । तत्त्वनवधारितमियत्कारणे गुरुत्वमि -
यत्कार्ये गुरुत्वमिति । यदि न कार्यकारणगुरुत्वमनवधारितं योऽयं
प्रत्ययस्तुलयोन्मीयमाने द्रव्ये द्विपलं पञ्चपलमिति न प्राप्नोति । न न
प्राप्नोति । द्रव्यसमाहारगुरुत्वावधारणात् । यदिदं भवता मन्यते द्विपलं
पञ्चपलमिति ; नात्र कार्यकारणगुरुत्वे अवधार्येते ; किन्तु आचरमादाच
परमाणोश्च द्रव्यसमाहार उन्मीयते । तत्र मनुष्यधर्मणो न युक्तं वक्तुं