2025-01-21 07:36:45 by ambuda-bot
This page has not been fully proofread.
214
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
'* आविर्भावतिरोभावजन्मनाशविकल्पवत् ।
नित्यं जगदिति स्मृत्या ' * व्यवस्थाद्व्यमीरितम् ।
आनन्ददायिनी
[जडद्रव्य
भवत्वित्याह—-आविर्भावेति । व्यवस्थाद्वयं - आविर्भावः जन्मेति
व्यवस्थाद्वयमित्यर्थः । तथाच सर्वत्र विसृष्ट्याद्यङ्गीकारे आविर्भावस्यैव
भावप्रकाशः
' * आविर्भावेत्यादि — इदमुत्तरार्धम् ; तदेतदक्षयं नित्यं जग-
न्मुनिवराखिलम् । (विष्णुपुराणे १-२२-६० ) इति पूर्वार्धम् । अत्र
विष्णुचित्तार्याः—
।
अनन्तस्य न तस्यान्तस्संख्यानं वा (चा) पि विद्यते ।
इति जीवानामसंख्येयत्वं वक्ष्यति । अतः प्रतिसर्गमन्यनं ;
नित्यं तत्कार्यतः पृथक् ॥
अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः ।
।
इति वचनात् प्रवाहरूपेण च नित्यम् । आविर्भावतिरोभावौ-संकोच-
विकासौ । तावेव जन्मनाशौ इति व्याचख्युः । जन्मनाशावेव विकल्प
इति वा ताभ्यां विकल्प इति वा ; असत्त्वादिकं न विकल्प इति भावः ।
1* व्यवस्थाद्वयं—नित्यत्वव्यवस्थैका जन्मनाशव्यवस्था चापरा ॥
नान्योऽवयव्यवयवेभ्यो गुरुत्वान्तरकार्याग्रहणात् ' इति न्यायवा-
र्तिकम् । अत्र तात्पर्यटीका- ' अवयवगुरुत्वाद्गुरुत्वान्तरमवयविनः ; तस्य
यत्कार्यमवनतिविशेषः तस्याग्रहणादित्यर्थः ' इति । अत्र यद्यपि गुरु-
त्वान्तरकार्याग्रहणस्यानुमानविधयाऽवयवावयव्यभेदसाधकता न संभवति
अपक्षधर्मत्वादित्यभिप्रेत्य न्यायवार्तिके 'गुरुत्वान्तरकार्याग्रहणादित्येतन्न