This page has not been fully proofread.

सरः] त्रिगुणपरीक्षायां सद्द्रव्यवादसाधने स्वसिद्धान्तोक्तिः पुराणोक्तिभावव्यवस्थाच 213
 
सर्वार्थसिद्धिः
 
एवं पृथिव्याद्युपादानं चिन्तितम् । अथ उपादानाति-
रिक्तं कार्यद्रव्यं नास्तीति साध्यते । तत्र अवस्थाभेदमात्रं
स्वीकृतम् । अयमेव च सत्कार्यवाद आरम्भणाधिकरण-
 
साध्यः ॥
 
विसृष्टयुल्लासविक्षेपाः कार्याणां कथिताः क्वचित् ।
कल्पनीया न सर्वत्र परिणामोक्तयबाधतः ॥
 
आनन्ददायिनी
 
प्रसङ्गात्मिकां सङ्गतिमाह — एवमिति । नन्ववस्थारूपकार्य-
भेदाङ्गीकारे तस्यावस्थावतो भेदात् 'तदनन्यत्वमारम्भणशब्दादिभ्य' इत्य-
धिकरणविरोधः ; तत्र कार्यमात्रस्याभेदाङ्गीकारादित्याह -- अयमेवेति ।
तत्रापि कार्यद्रव्यस्यैवाभेदस्साधित इत्यर्थः । ननु कार्यं कारणमिति
विभाग एव नास्ति ; सतामेव द्रव्याणां विसृष्ट्युल्लासविक्षेपैः पुराणादि-
ष्वाविर्भावमात्राङ्गीकारादुत्पत्त्यभावात्साङ्ख्यपक्ष एव युक्त इत्यत्राह—
विसृष्टीति । विसृष्टिः--विसर्गः ; यथा कूर्मादेराकुञ्चितानामवयवानां
प्रसारणम्। उल्लासः–विकसनं ; यथा मुकुळीभूतस्य (पद्मादेः) करवीरादेः ।
विक्षेपः-यथा पिण्डीभूतस्य रजसः सर्वतः स (सम) र्पणं (जालादेः विस्ता-
रकारणम्)। यद्यपि क्वचिद्विसृष्ट्यादय उक्ताः; तथाऽपि ते न सर्वत्र कार्येषु ;
किन्तु कूर्माद्यङ्गप्रकाशनमिव पूर्वं विसृष्टप्रच्छन्नेष्वेव। तथाच क्वचित्पूर्वमुत्प-
न्नस्य नित्यस्य वा भगवद्विग्रहादेराविर्भाव इत्यर्थः । तत्र प्रमाणमाह-
परिणामेति ' सदेव सोम्येदमग्र आसीत् ' 'तत्सृष्ट्वा' 'प्रकृतेः परिणामास्ते '
'महदाद्या विशेषान्ताः' इत्यादौ परिणामवचनाबाधाय विसृष्ट्यादेः
काचित्कताकल्पनमिति भावः । ननु परिणामवचनमेव विसृष्ट्यादिपरं