This page has not been fully proofread.

212
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
एकैकाण्वंशभागेऽपि भागानन्त्यं प्रचक्षते ॥
निरंशा प्रकृतिस्सैव परिणामविभागिनी ।
अनन्तांशात्मिका चेति व्याहतं साङ्ख्यभाषितम् ।
अत्यन्तभिन्नसत्वादिद्रव्यसंघात्प्रधानतः ॥
 
[जडद्रव्य
 
यथांऽशं विश्वसृष्टौ च न स्यात्रिगुणता क्वचित् ॥ १९॥
इति त्रिगुणपरीक्षायां परमाणुकारणतावादभङ्गः.
 
आनन्ददायिनी
 
एकैकाण्वंशस्य पृथक्करणेऽपि तस्मिन्नंशेऽपि भागानन्त्यं प्रचक्षते तस्या-
प्यनन्तावयवत्वं वदन्तीत्यर्थः । तथाच क्वचिदपि पर्यवसानाभावान्नि
रवयवपरमाणुसिद्धिर्न स्यादिति भावः । साङ्ख्यास्तु प्रकृतिर्निरंशैव
परिणामवशाद्विभक्ता सत्यनन्तांशा चेति वदन्ति । तदयुक्तं ; सांशत्व-
निरंशत्वविभागानां व्याहतत्वादित्याह — निरंशा प्रकृतिरिति । तैरेव
साङ्ख्यैरत्यन्तभिन्नसत्वरजस्तमसां सङ्घातः प्रकृतिरित्युक्तं ; तदपि दूष-
यति -- अत्यन्तेति । यथांशं विश्वसृष्टौ चेति । सत्वांशस्सत्वरूपं
कार्यं सृजति रजोंऽशो रजोरूपं तमोंऽशस्तमोरूपं चेत्यर्थः ।
न स्यादिति । क्वचिदपि कार्ये त्रिगुणता -- सत्वादिरूपता न स्यादित्यर्थः ।
ननु त्रयाणामेकैकस्मिन्नेव कार्ये शुक्लकृष्णादितन्तूनामिव जनकत्वम-
स्त्विति चेत मैवं तैः प्रत्येकं तत्तदंशजनकत्वोक्तेः । किंच तथा-
सत्यत्यन्तभेदाङ्गीकारो व्यर्थः । त्रयाणामेकात्मत्वस्य लाघवेनाभ्युपगन्तुं
युक्तत्वात् ॥१९॥
 
;
 
इति त्रिगुणपरीक्षायां परमाणुकारणतावादभङ्गः .