This page has not been fully proofread.

210
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
सर्वार्थसिद्धिः
 
सर्वव्यापिस्वतस्सर्वज्ञजगत्कर्तृविषयत्वाच्च वाक्यस्य । सूक्ष्म-
शब्दश्च न परिमाणविशेषनियतः । उक्तं च विभ्वीं प्रकृतिं मही-
यसश्च महदादीन् प्रकृत्य साङ्ख्यैः – 'सौक्ष्म्यात्तदनुपलब्धिः '
इति । ननु त्रसरेणोरष्टमष्पष्ठो वा भागः परमाणुरिति सर्वानु-
मतैश्शिल्पिनां शास्त्रैः धर्मशास्त्रैः तन्मूलस्मृत्या च परमाणु-
सिद्धिस्स्यात् ? तन्न; शिल्पादिशास्त्राणां परमाणावतत्पर-
आनन्ददायिनी
 
परं ; येन परमाणुसिद्धिमाशङ्केतेत्याह —— सर्वव्यापीति । उक्तं चेति-
 
सामान्यतस्तु दृष्टात् अतीन्द्रियाणां प्रसिद्धिरनुमानात् ।
 
इत्यादिना प्रकृत्यादिसिद्धिमुक्त्वा तेषामनुपलब्धिबाधात्सिद्धिर्न स्यादि-
त्याशङ्कय अनुपलब्धिमात्रं न बाधकं; अपि तु योग्यानुपलब्धिः ;
प्रकृते सा नास्ति । कुतः ?-
 
सौक्ष्म्यात्तदनुपलब्धिः नाभावात् कार्यतस्तदुपलब्धेः ।
 
इति महत्स्वपीन्द्रियाग्राह्यत्वमात्रेण सूक्ष्मपदं प्रयुक्तमित्यर्थः । ननु
देवताविग्रहादिप्रमाणनिर्णयार्थम्--
 
जालसूर्यमरीचिस्थं सूक्ष्मं यत्परिदृश्यते ।
 
तस्याष्टमो वा षष्ठो वा भागोऽणुः परिकीर्तितः ।
 
इति । तथा स्वर्णस्तेयादिनिर्णयार्थं स्सृतावपि --
 
17
 
जालसूर्यमरीच्यां यद्भाति सूक्ष्मं त्रुटेः परम् ।
भागोऽष्टमस्तृतीयो वा परमाणुरितीरितः ॥
 
इत्यादिना शिल्पशास्त्रधर्मशास्त्रेषूक्तेः कथं निराकरणम् ? इति शङ्कते -
नन्विति । अतत्परत्वादिति — परमाणुविषयतात्पर्याभावादित्यर्थः । ता-