2025-01-21 07:36:45 by ambuda-bot
This page has not been fully proofread.
सरः]
त्रिगुणपरीक्षायां परमाणुकारणतावादभङ्गः
209
तत्वमुक्ताकलापः
परतदितरता पक्षमासाद्यनन्तं श्रौतोपादानसौक्ष्म्यं
न भवदभिमतं तत्प्रथिम्नः श्रुतत्वात् ॥ १९ ॥
सर्वार्थसिद्धिः
नन्तव्यक्तिवृत्तित्वमविशिष्टम् ; तथाऽपि न्यूनाधिकवृत्त्यैव परा-
परभावो युष्माभिः कल्पितः तद्वदिहापि स्यादिति भावः ।
निदर्शनान्तराण्यप्याह – पक्षेति । अनन्ताः पक्षा मासाश्च ।
तथापि मासापेक्षया द्वैगुण्यं पक्षाणामेष्टव्यम् । आदिशब्देन
क्षणप्रभृतिपरार्धादिसंग्रहः । अन्यच्च घटसमुदायाद्घटपटसमुदायोऽ-
धिकः । हिमवद्दक्षिणदेशान्मेरुदक्षिणदेशः । एकात्म दुःखजाता-
दनन्तात्मदुःखजातमित्यादि स्वयमूह्यम् । 'नित्यं विभुं सर्वगतं
सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः' इति जग-
दुपादानं निरतिशयसूक्ष्मं श्रूयते । अतोऽस्मदाद्यग्राह्यो दुस्त्यजः
परमाणुरित्यत्राह — श्रौति । न हि सर्वन्यूनपरिमाणत्वं
तत्सूक्ष्मत्वं ; पूर्वोक्तसर्वगतशब्देन श्रुत्यन्तरैश्च विरोधात् ।
न च जात्यभिप्रायोऽसौ ; एकस्य सर्वोपादानत्वोक्तेः ।
आनन्ददायिनी
मासापेक्षयेति — एकैकस्य मासस्य पक्षद्वयात्मकत्वादिति भावः ।
मूले ' व्यक्तयानन्त्येऽपि जात्योः परतदितरता पक्षमासाद्यनन्तम् '
इत्यनन्तरं तथाऽपि न्यूनाधिकभावो दृष्ट इति शेषः । सर्वगत-
शब्देनेति—विभुशब्देनापीत्यर्थः । असाविति — सर्वगतशब्द इत्यर्थः ।
एकस्येति—अजामेकामित्यादिनेत्यर्थः । वस्तुतस्तु नेदं वाक्यं प्रकृति-
SARVARTHA.
14