2025-01-21 07:36:45 by ambuda-bot
This page has not been fully proofread.
208
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
तत्वमुक्ताकलापः
स्थौल्य हेतुर्गिरेः स्यात् । व्यक्तयानन्त्येऽपि जात्योः
सर्वार्थसिद्धिः
एतच्चोत्तरमनन्तभागाभ्युपगन्तॄणां तत्प्रसञ्जकानां च समानम् ।
अण्वंशानामनन्तत्वे गन्तॄणां तदतिक्रमः ।
कदापि न स्यात्, किं न स्यात् वेगातिशयवैभवात् ? ॥
घुमणेरातपस्सर्पनुदयाद्रिशिखामणेः ।
तत्क्षणं किं न निर्माति पश्चिमाद्रिशिखण्डकः १ ॥
आनन्त्याविशेषे कथं न्यूनाधिकभावः ? इत्यत्राह व्यक्तीति ।
सत्ताप्रभृति घटत्वादिपर्यन्तानां सर्वासां जातीनां त्रैकालिका-
आनन्ददायिनी
एतच्चोत्तरमिति । अधिकावयवारब्धत्वं न्यूनावयवारब्धत्वं च परिमाणतार-
तम्यप्रयोजकमित्युत्तरमित्यर्थः । अनवस्थया अनन्तभागाभ्युपगन्त्रणां तत्प्र-
सञ्जकानां क्वचिदवयवारब्धत्वमनभ्युपेत्य नित्यपरमाणुवादिनां नैयायि-
कानां च समानमित्याह-- अनन्तभागेति । प्रकारान्तरेण परमाणुसाधनमा-
शङ्कय निराकरोति- अण्वंशानामिति । तदतिक्रमः - अण्वतिक्रमः । न स्या-
दिति — अनन्तावयवत्वेन परमाणोरपि गगनादिवदनन्तत्वादतिक्रमणं न
स्यादित्यर्थः । घटादीनामतिक्रमो न स्यादित्येतत्कैमुत्यन्यायसिद्धमिति
द्रष्टव्यं । परिहरति--किं न स्यादिति । स्यादेवेति भावः । तत्र हेतु :-
वेगातिशयेति । तत्र दृष्टान्तमाह – घुमणेरिति । सर्पन्– गच्छन् ।
उदयाद्रिशिखामणेः उदयं गतस्य । पश्चिमाद्रिशिखण्डकः पश्चि-
माद्रिशिखरगतः ।