This page has not been fully proofread.

सर:]
 
त्रिगुणपरीक्षायां परमाणुकारणवादभङ्गः
 
207
 
प्रसङ्गाः ॥ १८ ॥
 
तत्वमुक्ताकलापः
 
स्याद्भागानन्त्य साम्ये परिमितिसमता सर्प-
पक्ष्माभृतोश्चेत् मैवं भागेष्वनन्तेष्वपि समधिकता
 
सर्वार्थसिद्धिः
 
अणुषु स्वाभावसमानाधिकरण संयोगसिद्धेरौपाधिकांशवत्त्वस्वी-
कारात् इष्टप्रसङ्गतां परिहर्तुमारम्भकशब्दः ॥ १८ ॥
 
नन्वेवं सर्वत्रावयवानन्त्यप्रसङ्गे सर्षपमहीधरादिपरिमाण-
वैचित्रयं न स्यादिति शङ्कते - स्यादिति । प्रसञ्जकस्याप्रयो-
जकत्वाभिप्रायेण प्रतिवक्ति – मैवमिति । आनन्त्य साम्येऽप्यवय-
वानां न्यूनाधिकभावेन परिमाणवैषम्योपपत्तिमाह-भागेष्विति ।
 
आनन्ददायिनी
 
संयुक्तविभुप्रतिबन्धाऽणुष्वव्याप्यवृत्तिसंयोगौपाधिकांशवत्त्व स्वीकारसंभवा
देकदेशेन संयुज्यते उत नेत्यादिविकल्पमुखेन प्रवृत्तानामिष्टप्र-
सङ्गतामाशङ्कयारम्भकांश पदाविशेषणेन परिहरतीत्याह -अणुष्विति ।
आरम्भकसंयोगानामवयवावच्छिन्नानामेव जनकत्वनियमादिति भावः ।
परमाणुस्स्सांशस्स्यात् आरम्भकत्वात् परमाणुरनौपाधिकदेशेन संयो-
गवान् स्यादारम्भकसंयोगवत्त्वादित्यादिप्रयोगो द्रष्टव्यः ॥ १८ ॥
 
मुखान्तरेणानवस्थापरिहारेण निरवयवपरमाणुसाधनमाशङ्कय परि-
 
हरतीत्याह— नन्वेवमिति । आक्षेपसङ्गतिर्बोध्या ।