This page has not been fully proofread.

206
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
नो चेदारम्भकांशप्रभृतिषु नियता दुर्निवाराः
 
सर्वार्थसिद्धिः
 
1 *अत एव मूर्तत्वे सति महत्त्वात्रसेरणुः कार्यद्रव्यारब्ध
इति कल्पनापि निरस्ता । अस्तु बाह्येन्द्रियग्राह्यत्वादेतत्सा-
ध्यमिति ? न । विपक्षे बाधकाभावात् । अन्यथा त्रसरेण्वा-
रम्भकस्यापि कार्यद्रव्यारव्धत्वकल्पनायां निवारकाभावात् । तत्र
विपक्षे बाधकं नास्तीति चेत्; अत्रापि तथेत्युक्तमेव । अतो न
द्वयणुकमित्यपि किञ्चित् । एवमारम्भकपरम्परायास्सावयवत्वं
तद्वंयापकतयाऽभिमतमनित्यत्त्वं कुतश्चिन्महत्त्वं च प्रसज्यमान-
मनिवारणीयं स्यात् ; एतत्सर्वमभिप्रेत्याह – नो चेदिति ।
आनन्ददायिनी
 
-
 
प्रत्यक्षत्वमित्यर्थः । तथाच - महत्त्वोत्कर्षस्य चाक्षुषप्रत्यक्षोत्कर्षप्रयोजक-
त्वेऽपि न चाक्षुषप्रत्यक्षमात्रहेतुत्वमिति भावः । अत एवेति त्रस -
रेणोः परमाणुत्वादित्यर्थः । तथाच स्वरूपासिद्धिरिति भावः ।
एतत्साध्यं कार्यद्रव्यावस्थत्वरूपं साध्यं । त्रसरेण्वारम्भकस्येति ।
द्व्यणुकस्येत्यर्थः । व्याप्तिरविशेषादित्याह -- निवारकाभावादिति । इष्टाप-
त्तिमाशङ्कय नित्यनिरवयवाणुत्वसिद्धिर्न स्यादित्याह — एवमारम्भकेति ।
 
-
 
1 * अत एव
 
-
 
भावप्रकाड़ाः
 
अप्रयोजकत्वादेव ।
 
सिद्धान्त च प्रकृतेर्निरंशत्वे सांशत्वे वा न कोऽपि दोष इति न्याय-
सिद्धाञ्जने व्यक्तम् ।